५. उद्योगपर्व
५.१४५.१वैशंपायन उवाच

५.१४५.२आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान्

५.१४५.३संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः
स्वमेवावसथं शौरिर्विश्रामार्थं जगाम ह

५.१४५.४विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा
पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति

५.१४५.५संध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन्

५.१४५.६युधिष्ठिर उवाच

५.१४५.७त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि

५.१४५.८वासुदेव उवाच

५.१४५.९मया नागपुरं गत्वा सभायां धृतराष्ट्रजः
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः

५.१४५.१०युधिष्ठिर उवाच

५.१४५.११तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम्
आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत्

५.१४५.१२पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः
पुत्रशोकाभिसंतप्तः किमाह धृतराष्ट्रजम्

५.१४५.१३किं च सर्वे नृपतयः सभायां ये समासते
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन

५.१४५.१४उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः

५.१४५.१५अप्रियं हृदये मह्यं तन्न तिष्ठति केशव
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो

५.१४५.१६यथा च नाभिपद्येत कालस्तात तथा कुरु
भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः

५.१४५.१७वासुदेव उवाच

५.१४५.१८शृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे

५.१४५.१९मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः
अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत्

५.१४५.२०दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु

५.१४५.२१मम तात पिता राजञ्शंतनुर्लोकविश्रुतः
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः

५.१४५.२२तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः

५.१४५.२३न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम्

५.१४५.२४प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन्

५.१४५.२५तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः
विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः

५.१४५.२६स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम्
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः

५.१४५.२७तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम्
जित्वा पार्थिवसंघातमपि ते बहुशः श्रुतम्

५.१४५.२८ततो रामेण समरे द्वन्द्वयुद्धमुपागमम्
स हि रामभयादेभिर्नागरैर्विप्रवासितः
दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत

५.१४५.२९यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः
तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः

५.१४५.३०प्रजा ऊचुः

५.१४५.३१उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः
ईतयो नुद भद्रं ते शंतनोः कुलवर्धन

५.१४५.३२पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि

५.१४५.३३व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय
त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु

५.१४५.३४भीष्म उवाच

५.१४५.३५प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः
प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा

५.१४५.३६ततः पौरा महाराज माता काली च मे शुभा
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः
मामूचुर्भृशसंतप्ता भव राजेति संततम्

५.१४५.३७प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति
स त्वमस्मद्धितार्थं वै राजा भव महामते

५.१४५.३८इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः
तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात्
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः

५.१४५.३९ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम्
नाम्ब शंतनुना जातः कौरवं वंशमुद्वहन्
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः

५.१४५.४०विशेषतस्त्वदर्थं च धुरि मा मां नियोजय
अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले

५.१४५.४१एवं तामनुनीयाहं मातरं जनमेव च
अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम्

५.१४५.४२सह मात्रा महाराज प्रसाद्य तमृषिं तदा
अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः
त्रीन्स पुत्रानजनयत्तदा भरतसत्तम

५.१४५.४३अन्धः करणहीनेति न वै राजा पिता तव
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः

५.१४५.४४स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम्

५.१४५.४५मयि जीवति राज्यं कः संप्रशासेत्पुमानिह
मावमंस्था वचो मह्यं शममिच्छामि वः सदा

५.१४५.४६न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च

५.१४५.४७श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम
नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा