५. उद्योगपर्व
५.१४८.१वासुदेव उवाच

५.१४८.२एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च
गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत

५.१४८.३अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः

५.१४८.४अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः
प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः

५.१४८.५ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः

५.१४८.६अक्षौहिण्यो दशैका च पार्थिवानां समागताः
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत
यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते

५.१४८.७उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च
गान्धार्या धृतराष्ट्रेण समक्षं मम भारत
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि

५.१४८.८साम आदौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता
अभेदात्कुरुवंशस्य प्रजानां च विवृद्धये

५.१४८.९पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते
कर्मानुकीर्तनं चैव देवमानुषसंहितम्

५.१४८.१०यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः
तदा मया समानीय भेदिताः सर्वपार्थिवाः

५.१४८.११अद्भुतानि च घोराणि दारुणानि च भारत
अमानुषाणि कर्माणि दर्शितानि च मे विभो

५.१४८.१२भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम्
राधेयं भीषयित्वा च सौबलं च पुनः पुनः

५.१४८.१३न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः
भेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत्

५.१४८.१४पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम्
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च

५.१४८.१५ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः

५.१४८.१६प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च
यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत्

५.१४८.१७सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय
अवश्यं भरणीया हि पितुस्ते राजसत्तम

५.१४८.१८एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा

५.१४८.१९निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः
एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि

५.१४८.२०न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः