५.१५.१शल्य उवाच
५.१५.२एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत्
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः
५.१५.३विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि
५.१५.४गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित्
गत्वा नहुषमेकान्ते ब्रवीहि तनुमध्यमे
५.१५.५ऋषियानेन दिव्येन मामुपैहि जगत्पते
एवं तव वशे प्रीता भविष्यामीति तं वद
५.१५.६इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति
५.१५.७नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत्
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते
५.१५.८भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे
५.१५.९न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस
सत्येन वै शपे देवि कर्तास्मि वचनं तव
५.१५.१०इन्द्राण्युवाच
५.१५.११यो मे त्वया कृतः कालस्तमाकाङ्क्षे जगत्पते
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप
५.१५.१२कार्यं च हृदि मे यत्तद्देवराजावधारय
वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि
वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव
५.१५.१३इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा
इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम्
५.१५.१४वहन्तु त्वां महाराज ऋषयः संगता विभो
सर्वे शिबिकया राजन्नेतद्धि मम रोचते
५.१५.१५नासुरेषु न देवेषु तुल्यो भवितुमर्हसि
सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात्
न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान्
५.१५.१६शल्य उवाच
५.१५.१७एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम्
५.१५.१८अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि
दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने
५.१५.१९न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन्
अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः
५.१५.२०मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्
देवदानवगन्धर्वाः किंनरोरगराक्षसाः
५.१५.२१न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम्
५.१५.२२तस्मात्ते वचनं देवि करिष्यामि न संशयः
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा
पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि
५.१५.२३एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम्
विमाने योजयित्वा स ऋषीन्नियममास्थितान्
५.१५.२४अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन्
५.१५.२५नहुषेण विसृष्टा च बृहस्पतिमुवाच सा
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः
शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्
५.१५.२६बाढमित्येव भगवान्बृहस्पतिरुवाच ताम्
न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः
५.१५.२७न ह्येष स्थास्यति चिरं गत एष नराधमः
अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे
५.१५.२८इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः
शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते
५.१५.२९ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः
बृहस्पतिर्महातेजा देवराजोपलब्धये
५.१५.३०तस्माच्च भगवान्देवः स्वयमेव हुताशनः
स्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत
५.१५.३१स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च
पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः
निमेषान्तरमात्रेण बृहस्पतिमुपागमत्
५.१५.३२अग्निरुवाच
५.१५.३३बृहस्पते न पश्यामि देवराजमहं क्वचित्
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम्
न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते
५.१५.३४शल्य उवाच
५.१५.३५तमब्रवीद्देवगुरुरपो विश महाद्युते
५.१५.३६अग्निरुवाच
५.१५.३७नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते
५.१५.३८अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति