५. उद्योगपर्व
५.१६.१बृहस्पतिरुवाच

५.१६.२त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्

५.१६.३त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन

५.१६.४कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्

५.१६.५त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे

५.१६.६सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः
सर्वस्यास्य भुवनस्य प्रसूति;स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा

५.१६.७त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः

५.१६.८त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु पावक

५.१६.९स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः

५.१६.१०शल्य उवाच

५.१६.११एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः
बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम्
दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते

५.१६.१२प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः
आजगाम सरस्तच्च गूढो यत्र शतक्रतुः

५.१६.१३अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ
अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं स्थितम्

५.१६.१४आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम्

५.१६.१५गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम्

५.१६.१६महासुरो हतः शक्र नमुचिर्दारुणस्त्वया
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ

५.१६.१७शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय
उत्तिष्ठ वज्रिन्संपश्य देवर्षींश्च समागतान्

५.१६.१८महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो
अपां फेनं समासाद्य विष्णुतेजोपबृंहितम्
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते

५.१६.१९त्वं सर्वभूतेषु वरेण्य ईड्य;स्त्वया समं विद्यते नेह भूतम्
त्वया धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ

५.१६.२०पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नुहि
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः

५.१६.२१स्वं चैव वपुरास्थाय बभूव स बलान्वितः
अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम्

५.१६.२२किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः
वृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः

५.१६.२३बृहस्पतिरुवाच

५.१६.२४मानुषो नहुषो राजा देवर्षिगणतेजसा
देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम्

५.१६.२५इन्द्र उवाच

५.१६.२६कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम्
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते

५.१६.२७बृहस्पतिरुवाच

५.१६.२८देवा भीताः शक्रमकामयन्त; त्वया त्यक्तं महदैन्द्रं पदं तत्
तदा देवाः पितरोऽथर्षयश्च; गन्धर्वसंघाश्च समेत्य सर्वे

५.१६.२९गत्वाब्रुवन्नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता
तानब्रवीन्नहुषो नास्मि शक्त; आप्यायध्वं तपसा तेजसा च

५.१६.३०एवमुक्तैर्वर्धितश्चापि देवै; राजाभवन्नहुषो घोरवीर्यः
त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान्याति लोकान्दुरात्मा

५.१६.३१तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर्नहुषं वै कदाचित्
देवाश्च सर्वे नहुषं भयार्ता; न पश्यन्तो गूढरूपाश्चरन्ति

५.१६.३२शल्य उवाच

५.१६.३३एवं वदत्यङ्गिरसां वरिष्ठे; बृहस्पतौ लोकपालः कुबेरः
वैवस्वतश्चैव यमः पुराणो; देवश्च सोमो वरुणश्चाजगाम

५.१६.३४ते वै समागम्य महेन्द्रमूचु;र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः
दिष्ट्या च त्वां कुशलिनमक्षतं च; पश्यामो वै निहतारिं च शक्र

५.१६.३५स तान्यथावत्प्रतिभाष्य शक्रः; संचोदयन्नहुषस्यान्तरेण
राजा देवानां नहुषो घोररूप;स्तत्र साह्यं दीयतां मे भवद्भिः

५.१६.३६ते चाब्रुवन्नहुषो घोररूपो; दृष्टीविषस्तस्य बिभीम देव
त्वं चेद्राजन्नहुषं पराजये;स्तद्वै वयं भागमर्हाम शक्र

५.१६.३७इन्द्रोऽब्रवीद्भवतु भवानपां पति;र्यमः कुबेरश्च महाभिषेकम्
संप्राप्नुवन्त्वद्य सहैव तेन; रिपुं जयामो नहुषं घोरदृष्टिम्

५.१६.३८ततः शक्रं ज्वलनोऽप्याह भागं; प्रयच्छ मह्यं तव साह्यं करिष्ये
तमाह शक्रो भविताग्ने तवापि; ऐन्द्राग्नो वै भाग एको महाक्रतौ

५.१६.३९एवं संचिन्त्य भगवान्महेन्द्रः पाकशासनः
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा

५.१६.४०वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा
आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा