५. उद्योगपर्व
५.१५०.१जनमेजय उवाच

५.१५०.२युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया
संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम्

५.१५०.३विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम्
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम्

५.१५०.४महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत

५.१५०.५एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले

५.१५०.६व्यथयेयुर्हि देवानां सेनामपि समागमे
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा

५.१५०.७धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः
युयुधानश्च विक्रान्तो देवैरपि दुरासदः

५.१५०.८एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम्

५.१५०.९वैशंपायन उवाच

५.१५०.१०प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम्

५.१५०.११अकृतेनैव कार्येण गतः पार्थानधोक्षजः
स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम्

५.१५०.१२इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ

५.१५०.१३अजातशत्रुरप्यद्य भीमार्जुनवशानुगः
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः

५.१५०.१४विराटद्रुपदौ चैव कृतवैरौ मया सह
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ

५.१५०.१५भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः
तस्मात्सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः

५.१५०.१६शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः
सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः

५.१५०.१७आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः
अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च
विविधायुधपूर्णानि पताकाध्वजवन्ति च

५.१५०.१८समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम्

५.१५०.१९ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा
हृष्टरूपा महात्मानो विनाशाय महीक्षिताम्

५.१५०.२०ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम्
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः

५.१५०.२१बाहून्परिघसंकाशान्संस्पृशन्तः शनैः शनैः
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान्

५.१५०.२२उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः

५.१५०.२३ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः
सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः

५.१५०.२४अथ वर्माणि चित्राणि काञ्चनानि बहूनि च
विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः

५.१५०.२५पदातयश्च पुरुषाः शस्त्राणि विविधानि च
उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः

५.१५०.२६तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम्
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम्

५.१५०.२७जनौघसलिलावर्तो रथनागाश्वमीनवान्
शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान्

५.१५०.२८चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान्
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः

५.१५०.२९योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः
अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः