५. उद्योगपर्व
५.१६६.१भीष्म उवाच

५.१६६.२समुद्यतोऽयं भारो मे सुमहान्सागरोपमः
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः

५.१६६.३तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे
मिथोभेदो न मे कार्यस्तेन जीवसि सूतज

५.१६६.४न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव
युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज

५.१६६.५जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता
न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि

५.१६६.६कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम्
वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन

५.१६६.७समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे
निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः

५.१६६.८ईदृशानां सहस्राणि विशिष्टानामथो पुनः
मयैकेन निरस्तानि ससैन्यानि रणाजिरे

५.१६६.९त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्
उपस्थितो विनाशाय यतस्व पुरुषो भव

५.१६६.१०युध्यस्व पार्थं समरे येन विस्पर्धसे सह
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते

५.१६६.११संजय उवाच

५.१६६.१२तमुवाच ततो राजा धार्तराष्ट्रो महामनाः
मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम्

५.१६६.१३चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम्
उभावपि भवन्तौ मे महत्कर्म करिष्यतः

५.१६६.१४भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान्
ये चैवातिरथास्तत्र तथैव रथयूथपाः

५.१६६.१५बलाबलममित्राणां श्रोतुमिच्छामि कौरव
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति

५.१६६.१६भीष्म उवाच

५.१६६.१७एते रथास्ते संख्यातास्तथैवातिरथा नृप
ये चाप्यर्धरथा राजन्पाण्डवानामतः शृणु

५.१६६.१८यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप
रथसंख्यां महाबाहो सहैभिर्वसुधाधिपैः

५.१६६.१९स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः
अग्निवत्समरे तात चरिष्यति न संशयः

५.१६६.२०भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः
नागायुतबलो मानी तेजसा न स मानुषः

५.१६६.२१माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ
अश्विनाविव रूपेण तेजसा च समन्वितौ

५.१६६.२२एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः

५.१६६.२३सर्व एव महात्मानः शालस्कन्धा इवोद्गताः
प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः

५.१६६.२४सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः
चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः

५.१६६.२५ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः
सर्वे जितमहीपाला दिग्जये भरतर्षभ

५.१६६.२६न चैषां पुरुषाः केचिदायुधानि गदाः शरान्
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव
उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम्

५.१६६.२७जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः

५.१६६.२८ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः
विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः

५.१६६.२९एकैकशस्ते संग्रामे हन्युः सर्वान्महीक्षितः
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत्

५.१६६.३०द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः
ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत्

५.१६६.३१लोहिताक्षो गुडाकेशो नारायणसहायवान्
उभयोः सेनयोर्वीर रथो नास्तीह तादृशः

५.१६६.३२न हि देवेषु वा पूर्वं दानवेषूरगेषु वा
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु

५.१६६.३३भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः
समायुक्तो महाराज यथा पार्थस्य धीमतः

५.१६६.३४वासुदेवश्च संयन्ता योद्धा चैव धनंजयः
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः

५.१६६.३५अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च

५.१६६.३६याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः
वज्रादीनि च मुख्यानि नानाप्रहरणानि वै

५.१६६.३७दानवानां सहस्राणि हिरण्यपुरवासिनाम्
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः

५.१६६.३८एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः
तव सेनां महाबाहुः स्वां चैव परिपालयन्

५.१६६.३९अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम्
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी

५.१६६.४०जीमूत इव घर्मान्ते महावातसमीरितः
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान्
तरुणश्च कृती चैव जीर्णावावामुभावपि

५.१६६.४१संजय उवाच

५.१६६.४२एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः

५.१६६.४३मनोभिः सह सावेगैः संस्मृत्य च पुरातनम्
सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात्