५. उद्योगपर्व
५.१६९.१भीष्म उवाच

५.१६९.२रोचमानो महाराज पाण्डवानां महारथः
योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत

५.१६९.३पुरुजित्कुन्तिभोजश्च महेष्वासो महाबलः
मातुलो भीमसेनस्य स च मेऽतिरथो मतः

५.१६९.४एष वीरो महेष्वासः कृती च निपुणश्च ह
चित्रयोधी च शक्तश्च मतो मे रथपुंगवः

५.१६९.५स योत्स्यति हि विक्रम्य मघवानिव दानवैः
योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः

५.१६९.६भागिनेयकृते वीरः स करिष्यति संगरे
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते नृपः

५.१६९.७भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः
मतो मे बहुमायावी रथयूथपयूथपः

५.१६९.८योत्स्यते समरे तात मायाभिः समरप्रियः
ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः

५.१६९.९एते चान्ये च बहवो नानाजनपदेश्वराः
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः

५.१६९.१०एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः
रथाश्चातिरथाश्चैव ये चाप्यर्धरथा मताः

५.१६९.११नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना

५.१६९.१२तैरहं समरे वीर त्वामायद्भिर्जयैषिभिः
योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे

५.१६९.१३पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ
संध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ

५.१६९.१४ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः
सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि

५.१६९.१५एते रथाश्चातिरथाश्च तुभ्यं; यथाप्रधानं नृप कीर्तिता मया
तथा राजन्नर्धरथाश्च केचि;त्तथैव तेषामपि कौरवेन्द्र

५.१६९.१६अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः
सर्वानावारयिष्यामि यावद्द्रक्ष्यामि भारत

५.१६९.१७पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम्
उद्यतेषुमभिप्रेक्ष्य प्रतियुध्यन्तमाहवे

५.१६९.१८लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः

५.१६९.१९चित्राङ्गदं कौरवाणामहं राज्येऽभ्यषेचयम्
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम्

५.१६९.२०देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथंचन

५.१६९.२१स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः
कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत

५.१६९.२२सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप