५. उद्योगपर्व
५.१७०.१दुर्योधन उवाच

५.१७०.२किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम्
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम्

५.१७०.३पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैः
वधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह

५.१७०.४भीष्म उवाच

५.१७०.५शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः
यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम्

५.१७०.६महाराजो मम पिता शंतनुर्भरतर्षभः
दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ

५.१७०.७ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम्

५.१७०.८तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि

५.१७०.९मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत

५.१७०.१०तस्य दारक्रियां तात चिकीर्षुरहमप्युत
अनुरूपादिव कुलादिति चिन्त्य मनो दधे

५.१७०.११तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा
अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा

५.१७०.१२राजानश्च समाहूताः पृथिव्यां भरतर्षभ
अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा
अम्बालिका च राजेन्द्र राजकन्या यवीयसी

५.१७०.१३सोऽहमेकरथेनैव गतः काशिपतेः पुरीम्
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः
राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते

५.१७०.१४ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान्
रथमारोपयां चक्रे कन्यास्ता भरतर्षभ

५.१७०.१५वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा
अवोचं पार्थिवान्सर्वानहं तत्र समागतान्
भीष्मः शांतनवः कन्या हरतीति पुनः पुनः

५.१७०.१६ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः
प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः

५.१७०.१७ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः
योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन्

५.१७०.१८ते रथैर्मेघसंकाशैर्गजैश्च गजयोधिनः
पृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः

५.१७०.१९ततस्ते मां महीपालाः सर्व एव विशां पते
रथव्रातेन महता सर्वतः पर्यवारयन्

५.१७०.२०तानहं शरवर्षेण महता प्रत्यवारयम्
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान्

५.१७०.२१तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान्
एकैकेन हि बाणेन भूमौ पातितवानहम्

५.१७०.२२हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे
अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ

५.१७०.२३ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम
अथाहं हास्तिनपुरमायां जित्वा महीक्षितः

५.१७०.२४अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम्