५.१८०.१भीष्म उवाच
५.१८०.२तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः
५.१८०.३आरोह स्यन्दनं वीर कवचं च महाभुज
बधान समरे राम यदि योद्धुं मयेच्छसि
५.१८०.४ततो मामब्रवीद्रामः स्मयमानो रणाजिरे
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत्
५.१८०.५सूतो मे मातरिश्वा वै कवचं वेदमातरः
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन
५.१८०.६एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः
शरव्रातेन महता सर्वतः पर्यवारयत्
५.१८०.७ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम्
सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने
५.१८०.८मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे
दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते
५.१८०.९ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान्
५.१८०.१०सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह
५.१८०.११आह्वयानः स मां युद्धे मनो हर्षयतीव मे
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः
५.१८०.१२तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम्
क्षत्रियान्तकरं राममेकमेकः समासदम्
५.१८०.१३ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै
अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम्
५.१८०.१४अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम्
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम्
५.१८०.१५योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च
गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो
५.१८०.१६राम उवाच
५.१८०.१७एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम्
५.१८०.१८शपेयं त्वां न चेदेवमागच्छेथा विशां पते
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव
५.१८०.१९न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते
५.१८०.२०भीष्म उवाच
५.१८०.२१ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः
प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम्
५.१८०.२२ततो युद्धं समभवन्मम तस्य च भारत
दिवसान्सुबहून्राजन्परस्परजिगीषया
५.१८०.२३स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः
षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम्
५.१८०.२४चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः
५.१८०.२५नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
५.१८०.२६आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि
भूयस्तु शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे
५.१८०.२७ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत्
तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम्
५.१८०.२८प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्
५.१८०.२९पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे
एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम्
५.१८०.३०तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ
तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत्
५.१८०.३१नव चापि पृषत्कानां शतानि नतपर्वणाम्
प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति
५.१८०.३२काये विषक्तास्तु तदा वायुनाभिसमीरिताः
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः
५.१८०.३३क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः
बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन्
५.१८०.३४हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः
बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः
५.१८०.३५ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः
५.१८०.३६ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः
अकम्पयन्महावेगाः सर्पानलविषोपमाः
५.१८०.३७ततोऽहं समवष्टभ्य पुनरात्मानमाहवे
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम्
५.१८०.३८स तैरग्न्यर्कसंकाशैः शरैराशीविषोपमैः
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत्
५.१८०.३९ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना
धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ
५.१८०.४०असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः
अहो बत कृतं पापं मयेदं क्षत्रकर्मणा
५.१८०.४१गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः
ततो न प्राहरं भूयो जामदग्न्याय भारत
५.१८०.४२अथावताप्य पृथिवीं पूषा दिवससंक्षये
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत्