५.१८३.१भीष्म उवाच
५.१८३.२ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत
५.१८३.३ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः
ववर्ष शरवर्षाणि मयि शक्र इवाचले
५.१८३.४तेन सूतो मम सुहृच्छरवर्षेण ताडितः
निपपात रथोपस्थे मनो मम विषादयन्
५.१८३.५ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत्
पृथिव्यां च शराघातान्निपपात मुमोह च
५.१८३.६ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा
५.१८३.७ततः सूते हते राजन्क्षिपतस्तस्य मे शरान्
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान्
५.१८३.८ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः
५.१८३.९स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः
मयैव सह राजेन्द्र जगाम वसुधातलम्
५.१८३.१०मत्वा तु निहतं रामस्ततो मां भरतर्षभ
मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः
५.१८३.११तथा तु पतिते राजन्मयि रामो मुदा युतः
उदक्रोशन्महानादं सह तैरनुयायिभिः
५.१८३.१२मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः
आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः
आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते
५.१८३.१३ततोऽपश्यं पातितो राजसिंह; द्विजानष्टौ सूर्यहुताशनाभान्
ते मां समन्तात्परिवार्य तस्थुः; स्वबाहुभिः परिगृह्याजिमध्ये
५.१८३.१४रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम्
अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव
स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः
५.१८३.१५ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम्
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत्
५.१८३.१६ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम्
५.१८३.१७हयाश्च मे संगृहीतास्तया वै; महानद्या संयति कौरवेन्द्र
पादौ जनन्याः प्रतिपूज्य चाहं; तथार्ष्टिषेणं रथमभ्यरोहम्
५.१८३.१८ररक्ष सा मम रथं हयांश्चोपस्कराणि च
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम्
५.१८३.१९ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत
५.१८३.२०ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम्
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम्
५.१८३.२१ततो जगाम वसुधां बाणवेगप्रपीडितः
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः
५.१८३.२२ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु
५.१८३.२३उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत्
५.१८३.२४ववुश्च वाताः परुषाश्चलिता च वसुंधरा
गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः
५.१८३.२५दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत्
अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः
५.१८३.२६एतदौत्पातिकं घोरमासीद्भरतसत्तम
विसंज्ञकल्पे धरणीं गते रामे महात्मनि
५.१८३.२७ततो रविर्मन्दमरीचिमण्डलो; जगामास्तं पांसुपुञ्जावगाढः
निशा व्यगाहत्सुखशीतमारुता; ततो युद्धं प्रत्यवहारयावः
५.१८३.२८एवं राजन्नवहारो बभूव; ततः पुनर्विमलेऽभूत्सुघोरम्
काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि त्रीणि