५. उद्योगपर्व
५.१८४.१भीष्म उवाच

५.१८४.२ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा
ब्राह्मणानां पितॄणां च देवतानां च सर्वशः

५.१८४.३नक्तंचराणां भूतानां रजन्याश्च विशां पते
शयनं प्राप्य रहिते मनसा समचिन्तयम्

५.१८४.४जामदग्न्येन मे युद्धमिदं परमदारुणम्
अहानि सुबहून्यद्य वर्तते सुमहात्ययम्

५.१८४.५न च रामं महावीर्यं शक्नोमि रणमूर्धनि
विजेतुं समरे विप्रं जामदग्न्यं महाबलम्

५.१८४.६यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान्
दैवतानि प्रसन्नानि दर्शयन्तु निशां मम

५.१८४.७ततोऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः
दक्षिणेनैव पार्श्वेन प्रभातसमये इव

५.१८४.८ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात्
उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः

५.१८४.९त एव मां महाराज स्वप्नदर्शनमेत्य वै
परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह

५.१८४.१०उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किंचन
रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान्

५.१८४.११न त्वां रामो रणे जेता जामदग्न्यः कथंचन
त्वमेव समरे रामं विजेता भरतर्षभ

५.१८४.१२इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान्
विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे

५.१८४.१३प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत
न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित्

५.१८४.१४तत्स्मरस्व महाबाहो भृशं संयोजयस्व च
न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप

५.१८४.१५एनसा च न योगं त्वं प्राप्स्यसे जातु मानद
स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः

५.१८४.१६ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि
अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै

५.१८४.१७एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः
प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम्

५.१८४.१८न च रामेण मर्तव्यं कदाचिदपि पार्थिव
ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति

५.१८४.१९इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः
अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः