५.१८९.१दुर्योधन उवाच
५.१८९.२कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा
पुरुषोऽभवद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह
५.१८९.३भीष्म उवाच
५.१८९.४भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः
महिषी दयिता ह्यासीदपुत्रा च विशां पते
५.१८९.५एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः
अपत्यार्थं महाराज तोषयामास शंकरम्
५.१८९.६अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः
लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन्
५.१८९.७भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति
५.१८९.८निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत्
स तु गत्वा च नगरं भार्यामिदमुवाच ह
५.१८९.९कृतो यत्नो मया देवि पुत्रार्थे तपसा महान्
कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शंभुना
५.१८९.१०पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः
न तदन्यद्धि भविता भवितव्यं हि तत्तथा
५.१८९.११ततः सा नियता भूत्वा ऋतुकाले मनस्विनी
पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह
५.१८९.१२लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना
पार्षतात्सा महीपाल यथा मां नारदोऽब्रवीत्
५.१८९.१३ततो दधार तं गर्भं देवी राजीवलोचना
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन
पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा
५.१८९.१४अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः
कन्यां प्रवररूपां तां प्राजायत नराधिप
५.१८९.१५अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी
ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै
५.१८९.१६ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत्
५.१८९.१७रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा
चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत
न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात्
५.१८९.१८श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः
छादयामास तां कन्यां पुमानिति च सोऽब्रवीत्
५.१८९.१९जातकर्माणि सर्वाणि कारयामास पार्थिवः
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः
५.१८९.२०अहमेकस्तु चारेण वचनान्नारदस्य च
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा