५. उद्योगपर्व
५.१९०.१भीष्म उवाच

५.१९०.२चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत्
ततो लेख्यादिषु तथा शिल्पेषु च परं गता
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह

५.१९०.३तस्य माता महाराज राजानं वरवर्णिनी
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा

५.१९०.४ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम्
स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया

५.१९०.५द्रुपद उवाच

५.१९०.६कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः

५.१९०.७न तन्मिथ्या महाराज्ञि भविष्यति कथंचन
त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति

५.१९०.८भार्योवाच

५.१९०.९यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः
श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज

५.१९०.१०क्रियतामस्य नृपते विधिवद्दारसंग्रहः
सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः

५.१९०.११भीष्म उवाच

५.१९०.१२ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती
वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम्

५.१९०.१३ततो राजा द्रुपदो राजसिंहः; सर्वान्राज्ञः कुलतः संनिशाम्य
दाशार्णकस्य नृपतेस्तनूजां; शिखण्डिने वरयामास दारान्

५.१९०.१४हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने

५.१९०.१५स च राजा दशार्णेषु महानासीन्महीपतिः
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः

५.१९०.१६कृते विवाहे तु तदा सा कन्या राजसत्तम
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी

५.१९०.१७कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत्
न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल

५.१९०.१८हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम्
धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत्
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम्

५.१९०.१९ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा
जग्मुरार्तिं परां दुःखात्प्रेषयामासुरेव च

५.१९०.२०ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन्
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः

५.१९०.२१शिखण्ड्यपि महाराज पुंवद्राजकुले तदा
विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन्

५.१९०.२२ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ
हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह

५.१९०.२३ततो दाशार्णको राजा तीव्रकोपसमन्वितः
दूतं प्रस्थापयामास द्रुपदस्य निवेशने

५.१९०.२४ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः
एक एकान्तमुत्सार्य रहो वचनमब्रवीत्

५.१९०.२५दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत्
अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ

५.१९०.२६अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि

५.१९०.२७तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते
एष त्वां सजनामात्यमुद्धरामि स्थिरो भव