५.१९७.१वैशंपायन उवाच
५.१९७.२तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत
५.१९७.३चेदिकाशिकरूषाणां नेतारं दृढविक्रमम्
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत्
५.१९७.४विराटं द्रुपदं चैव युयुधानं शिखण्डिनम्
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ
५.१९७.५ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव
५.१९७.६सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः
दिदेश तान्यनीकानि प्रयाणाय महीपतिः
५.१९७.७अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः
५.१९७.८भीमं च युयुधानं च पाण्डवं च धनंजयम्
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः
५.१९७.९भाण्डं समारोपयतां चरतां संप्रधावताम्
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत्
५.१९७.१०स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः
तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः
५.१९७.११भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत
५.१९७.१२ततः पुनरनीकानि व्ययोजयत बुद्धिमान्
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम्
५.१९७.१३द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान्
५.१९७.१४दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः
अयुतं च पदातीनां रथाः पञ्चशतास्तथा
५.१९७.१५भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम्
मध्यमे तु विराटं च जयत्सेनं च मागधम्
५.१९७.१६महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ
वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ
अन्वयातां ततो मध्ये वासुदेवधनंजयौ
५.१९७.१७बभूवुरतिसंरब्धाः कृतप्रहरणा नराः
तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः
५.१९७.१८पञ्च नागसहस्राणि रथवंशाश्च सर्वशः
पदातयश्च ये शूराः कार्मुकासिगदाधराः
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः
५.१९७.१९युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः
५.१९७.२०तत्र नागसहस्राणि हयानामयुतानि च
तथा रथसहस्राणि पदातीनां च भारत
यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम्
५.१९७.२१ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः
नदन्तः प्रययुस्तेषामनीकानि सहस्रशः
५.१९७.२२तत्र भेरीसहस्राणि शङ्खानामयुतानि च
वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः