५. उद्योगपर्व
५.१९६.१वैशंपायन उवाच

५.१९६.२ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति

५.१९६.३आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः

५.१९६.४सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः

५.१९६.५आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः
एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च

५.१९६.६विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः

५.१९६.७अश्वत्थामा शांतनवः सैन्धवोऽथ जयद्रथः
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः

५.१९६.८गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः
शकाः किराता यवनाः शिबयोऽथ वसातयः

५.१९६.९स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्
एते महारथाः सर्वे द्वितीये निर्ययुर्बले

५.१९६.१०कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः

५.१९६.११शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः
एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः

५.१९६.१२ते समेन पथा यात्वा योत्स्यमाना महारथाः
कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः

५.१९६.१३दुर्योधनस्तु शिबिरं कारयामास भारत
यथैव हास्तिनपुरं द्वितीयं समलंकृतम्

५.१९६.१४न विशेषं विजानन्ति पुरस्य शिबिरस्य वा
कुशला अपि राजेन्द्र नरा नगरवासिनः

५.१९६.१५तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः
कारयामास कौरव्यः शतशोऽथ सहस्रशः

५.१९६.१६पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम्
सेनानिवेशास्ते राजन्नाविशञ्शतसंघशः

५.१९६.१७तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्
विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः

५.१९६.१८तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम्

५.१९६.१९सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः

५.१९६.२०वणिजो गणिका वारा ये चैव प्रेक्षका जनाः
सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत