५. उद्योगपर्व
५.२४.१संजय उवाच

५.२४.२यथार्हसे पाण्डव तत्तथैव; कुरून्कुरुश्रेष्ठ जनं च पृच्छसि
अनामयास्तात मनस्विनस्ते; कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम्

५.२४.३सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे; सन्त्येव पापाः पाण्डव तस्य विद्धि
दद्याद्रिपोश्चापि हि धार्तराष्ट्रः; कुतो दायाँल्लोपयेद्ब्राह्मणानाम्

५.२४.४यद्युष्माकं वर्ततेऽसौ न धर्म्य;मद्रुग्धेषु द्रुग्धवत्तन्न साधु
मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो; युष्मान्द्विषन्साधुवृत्तानसाधुः

५.२४.५न चानुजानाति भृशं च तप्यते; शोचत्यन्तः स्थविरोऽजातशत्रो
शृणोति हि ब्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीयान्

५.२४.६स्मरन्ति तुभ्यं नरदेव संगमे; युद्धे च जिष्णोश्च युधां प्रणेतुः
समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं स्मरन्ति

५.२४.७माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः संपतन्तौ स्मरन्ति
सेनां वर्षन्तौ शरवर्षैरजस्रं; महारथौ समरे दुष्प्रकम्प्यौ

५.२४.८न त्वेव मन्ये पुरुषस्य राज;न्ननागतं ज्ञायते यद्भविष्यम्
त्वं चेदिमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम्

५.२४.९त्वमेवैतत्सर्वमतश्च भूयः; समीकुर्याः प्रज्ञयाजातशत्रो
न कामार्थं संत्यजेयुर्हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः

५.२४.१०त्वमेवैतत्प्रज्ञयाजातशत्रो; शमं कुर्या येन शर्माप्नुयुस्ते
धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च; ये चाप्यन्ये पार्थिवाः संनिविष्टाः

५.२४.११यन्माब्रवीद्धृतराष्ट्रो निशाया;मजातशत्रो वचनं पिता ते
सहामात्यः सहपुत्रश्च राज;न्समेत्य तां वाचमिमां निबोध