५. उद्योगपर्व
५.३५.१धृतराष्ट्र उवाच

५.३५.२ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे

५.३५.३विदुर उवाच

५.३५.४सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्
उभे एते समे स्यातामार्जवं वा विशिष्यते

५.३५.५आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि

५.३५.६यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते

५.३५.७अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना

५.३५.८केशिन्युवाच

५.३५.९किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति

५.३५.१०विरोचन उवाच

५.३५.११प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः

५.३५.१२केशिन्युवाच

५.३५.१३इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ

५.३५.१४विरोचन उवाच

५.३५.१५तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
सुधन्वानं च मां चैव प्रातर्द्रष्टासि संगतौ

५.३५.१६सुधन्वोवाच

५.३५.१७अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम्
एकत्वमुपसंपन्नो न त्वासेयं त्वया सह

५.३५.१८विरोचन उवाच

५.३५.१९अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम्
सुधन्वन्न त्वमर्होऽसि मया सह समासनम्

५.३५.२०सुधन्वोवाच

५.३५.२१पितापि ते समासीनमुपासीतैव मामधः
बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे

५.३५.२२विरोचन उवाच

५.३५.२३हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः

५.३५.२४सुधन्वोवाच

५.३५.२५हिरण्यं च गवाश्वं च तवैवास्तु विरोचन
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः

५.३५.२६विरोचन उवाच

५.३५.२७आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित्

५.३५.२८सुधन्वोवाच

५.३५.२९पितरं ते गमिष्यावः प्राणयोर्विपणे कृते
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत्

५.३५.३०प्रह्राद उवाच

५.३५.३१इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह
आशीविषाविव क्रुद्धावेकमार्गमिहागतौ

५.३५.३२किं वै सहैव चरतो न पुरा चरतः सह
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना

५.३५.३३विरोचन उवाच

५.३५.३४न मे सुधन्वना सख्यं प्राणयोर्विपणावहे
प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः

५.३५.३५प्रह्राद उवाच

५.३५.३६उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता

५.३५.३७सुधन्वोवाच

५.३५.३८उदकं मधुपर्कं च पथ एवार्पितं मम
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः

५.३५.३९प्रह्राद उवाच

५.३५.४०पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत्

५.३५.४१अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम्
एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत्

५.३५.४२सुधन्वोवाच

५.३५.४३यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्

५.३५.४४नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः
अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत्

५.३५.४५पञ्च पश्वनृते हन्ति दश हन्ति गवानृते
शतमश्वानृते हन्ति सहस्रं पुरुषानृते

५.३५.४६हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः

५.३५.४७प्रह्राद उवाच

५.३५.४८मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः

५.३५.४९विरोचन सुधन्वायं प्राणानामीश्वरस्तव
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम्

५.३५.५०सुधन्वोवाच

५.३५.५१यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम्

५.३५.५२एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः
पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम

५.३५.५३विदुर उवाच

५.३५.५४तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि
मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन्

५.३५.५५न देवा यष्टिमादाय रक्षन्ति पशुपालवत्
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम्

५.३५.५६यथा यथा हि पुरुषः कल्याणे कुरुते मनः
तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः

५.३५.५७न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम्
नीडं शकुन्ता इव जातपक्षा;श्छन्दांस्येनं प्रजहत्यन्तकाले

५.३५.५८मत्तापानं कलहं पूगवैरं; भार्यापत्योरन्तरं ज्ञातिभेदम्
राजद्विष्टं स्त्रीपुमांसोर्विवादं; वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः

५.३५.५९सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च
अरिं च मित्रं च कुशीलवं च; नैतान्साक्ष्येष्वधिकुर्वीत सप्त

५.३५.६०मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः
एतानि चत्वार्यभयंकराणि; भयं प्रयच्छन्त्ययथाकृतानि

५.३५.६१अगारदाही गरदः कुण्डाशी सोमविक्रयी
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः

५.३५.६२भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः

५.३५.६३स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः

५.३५.६४तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः
शूरो भयेष्वर्थकृच्छ्रेषु धीरः; कृच्छ्रास्वापत्सु सुहृदश्चारयश्च

५.३५.६५जरा रूपं हरति हि धैर्यमाशा; मृत्युः प्राणान्धर्मचर्यामसूया
क्रोधः श्रियं शीलमनार्यसेवा; ह्रियं कामः सर्वमेवाभिमानः

५.३५.६६श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति

५.३५.६७अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च
पराक्रमश्चाबहुभाषिता च; दानं यथाशक्ति कृतज्ञता च

५.३५.६८एतान्गुणांस्तात महानुभावा;नेको गुणः संश्रयते प्रसह्य
राजा यदा सत्कुरुते मनुष्यं; सर्वान्गुणानेष गुणोऽतिभाति

५.३५.६९अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि
चत्वार्येषामन्ववेतानि सद्भि;श्चत्वार्येषामन्ववयन्ति सन्तः

५.३५.७०यज्ञो दानमध्ययनं तपश्च; चत्वार्येतान्यन्ववेतानि सद्भिः
दमः सत्यमार्जवमानृशंस्यं; चत्वार्येतान्यन्ववयन्ति सन्तः

५.३५.७१न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम्
नासौ धर्मो यत्र न सत्यमस्ति; न तत्सत्यं यच्छलेनानुविद्धम्

५.३५.७२सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्
शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः

५.३५.७३पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम्
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम्

५.३५.७४पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः
नष्टप्रज्ञः पापमेव नित्यमारभते नरः

५.३५.७५पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः

५.३५.७६असूयको दन्दशूको निष्ठुरो वैरकृन्नरः
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन्

५.३५.७७अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा
अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते

५.३५.७८प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम्

५.३५.७९दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत्
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत्

५.३५.८०पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत्
यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत्

५.३५.८१जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्
शूरं विगतसंग्रामं गतपारं तपस्विनम्

५.३५.८२धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते
असंवृतं तद्भवति ततोऽन्यदवदीर्यते

५.३५.८३गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः

५.३५.८४ऋषीणां च नदीनां च कुलानां च महात्मनाम्
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च

५.३५.८५द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी
क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम्

५.३५.८६सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्

५.३५.८७बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च

५.३५.८८दुर्योधने च शकुनौ मूढे दुःशासने तथा
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि

५.३५.८९सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत्