५.३४.१धृतराष्ट्र उवाच
५.३४.२जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः
५.३४.३त्वं मां यथावद्विदुर प्रशाधि; प्रज्ञापूर्वं सर्वमजातशत्रोः
यन्मन्यसे पथ्यमदीनसत्त्व; श्रेयस्करं ब्रूहि तद्वै कुरूणाम्
५.३४.४पापाशङ्की पापमेवानुपश्य;न्पृच्छामि त्वां व्याकुलेनात्मनाहम्
कवे तन्मे ब्रूहि सर्वं यथाव;न्मनीषितं सर्वमजातशत्रोः
५.३४.५विदुर उवाच
५.३४.६शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्
अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम्
५.३४.७तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति
वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे
५.३४.८मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत
अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः
५.३४.९तथैव योगविहितं न सिध्येत्कर्म यन्नृप
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः
५.३४.१०अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु
संप्रधार्य च कुर्वीत न वेगेन समाचरेत्
५.३४.११अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम्
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा
५.३४.१२यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते
५.३४.१३यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति
५.३४.१४न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम्
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम्
५.३४.१५भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्
रूपाभिपाती ग्रसते नानुबन्धमवेक्षते
५.३४.१६यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्
हितं च परिणामे यत्तदद्यं भूतिमिच्छता
५.३४.१७वनस्पतेरपक्वानि फलानि प्रचिनोति यः
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति
५.३४.१८यस्तु पक्वमुपादत्ते काले परिणतं फलम्
फलाद्रसं स लभते बीजाच्चैव फलं पुनः
५.३४.१९यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया
५.३४.२०पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्
मालाकार इवारामे न यथाङ्गारकारकः
५.३४.२१किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः
इति कर्माणि संचिन्त्य कुर्याद्वा पुरुषो न वा
५.३४.२२अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः
कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः
५.३४.२३कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान्
क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान्
५.३४.२४ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः
५.३४.२५चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्
प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति
५.३४.२६यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव
सागरान्तामपि महीं लब्ध्वा स परिहीयते
५.३४.२७पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः
५.३४.२८धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः
वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी
५.३४.२९अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा
५.३४.३०य एव यत्नः क्रियते परराष्ट्रावमर्दने
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने
५.३४.३१धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते
५.३४.३२अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम्
५.३४.३३सुव्याहृतानि सुधियां सुकृतानि ततस्ततः
संचिन्वन्धीर आसीत शिलाहारी शिलं यथा
५.३४.३४गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः
५.३४.३५भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा
अथ या सुदुहा राजन्नैव तां विनयन्त्यपि
५.३४.३६यदतप्तं प्रणमति न तत्संतापयन्त्यपि
यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि
५.३४.३७एतयोपमया धीरः संनमेत बलीयसे
इन्द्राय स प्रणमते नमते यो बलीयसे
५.३४.३८पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः
५.३४.३९सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते
५.३४.४०मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः
५.३४.४१न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः
अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते
५.३४.४२य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये
सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः
५.३४.४३अकार्यकरणाद्भीतः कार्याणां च विवर्जनात्
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत्
५.३४.४४विद्यामदो धनमदस्तृतीयोऽभिजनो मदः
एते मदावलिप्तानामेत एव सतां दमाः
५.३४.४५असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्यं कदाचन
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम्
५.३४.४६गतिरात्मवतां सन्तः सन्त एव सतां गतिः
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः
५.३४.४७जिता सभा वस्त्रवता समाशा गोमता जिता
अध्वा जितो यानवता सर्वं शीलवता जितम्
५.३४.४८शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः
५.३४.४९आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्
लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ
५.३४.५०संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा
५.३४.५१प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते
दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते
५.३४.५२अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम्
उत्तमानां तु मर्त्यानामवमानात्परं भयम्
५.३४.५३ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः
ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते
५.३४.५४इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव
५.३४.५५यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट्
५.३४.५६अविजित्य य आत्मानममात्यान्विजिगीषते
अमित्रान्वाजितामात्यः सोऽवशः परिहीयते
५.३४.५७आत्मानमेव प्रथमं देशरूपेण यो जयेत्
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते
५.३४.५८वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते
५.३४.५९रथः शरीरं पुरुषस्य राज;न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः
तैरप्रमत्तः कुशलः सदश्वै;र्दान्तैः सुखं याति रथीव धीरः
५.३४.६०एतान्यनिगृहीतानि व्यापादयितुमप्यलम्
अविधेया इवादान्ता हयाः पथि कुसारथिम्
५.३४.६१अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम्
५.३४.६२धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः
श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते
५.३४.६३अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः
इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः
५.३४.६४आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
५.३४.६५क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ
कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः
५.३४.६६समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति
स वै संभृतसंभारः सततं सुखमेधते
५.३४.६७यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान्
जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम्
५.३४.६८दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः
५.३४.६९असंत्यागात्पापकृतामपापां;स्तुल्यो दण्डः स्पृशते मिश्रभावात्
शुष्केणार्द्रं दह्यते मिश्रभावा;त्तस्मात्पापैः सह संधिं न कुर्यात्
५.३४.७०निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान्
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम्
५.३४.७१अनसूयार्जवं शौचं संतोषः प्रियवादिता
दमः सत्यमनायासो न भवन्ति दुरात्मनाम्
५.३४.७२आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत
५.३४.७३आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते
५.३४.७४हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम्
शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम्
५.३४.७५वाक्संयमो हि नृपते सुदुष्करतमो मतः
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम्
५.३४.७६अभ्यावहति कल्याणं विविधा वाक्सुभाषिता
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते
५.३४.७७संरोहति शरैर्विद्धं वनं परशुना हतम्
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्
५.३४.७८कर्णिनालीकनाराचा निर्हरन्ति शरीरतः
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः
५.३४.७९वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु
५.३४.८०यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति
५.३४.८१बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते
अनयो नयसंकाशो हृदयान्नापसर्पति
५.३४.८२सेयं बुद्धिः परीता ते पुत्राणां तव भारत
पाण्डवानां विरोधेन न चैनामवबुध्यसे
५.३४.८३राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत्
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः
५.३४.८४अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः
तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित्
५.३४.८५आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः
गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति