५.४८.१वैशंपायन उवाच
५.४८.२समवेतेषु सर्वेषु तेषु राजसु भारत
दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत्
५.४८.३बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ
मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ
५.४८.४आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः
५.४८.५नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम्
परिवार्य च विश्वेशं पर्यासत दिवौकसः
५.४८.६तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम्
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी
५.४८.७बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह
५.४८.८ब्रह्मोवाच
५.४८.९यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ
५.४८.१०नरनारायणावेतौ लोकाल्लोकं समास्थितौ
ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ
५.४८.११एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ
असुराणामभावाय देवगन्धर्वपूजितौ
५.४८.१२वैशंपायन उवाच
५.४८.१३जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः
५.४८.१४तदा देवासुरे घोरे भये जाते दिवौकसाम्
अयाचत महात्मानौ नरनारायणौ वरम्
५.४८.१५तावब्रूतां वृणीष्वेति तदा भरतसत्तम
अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति
५.४८.१६ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान्
५.४८.१७नर इन्द्रस्य संग्रामे हत्वा शत्रून्परंतपः
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च
५.४८.१८एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः
जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे
५.४८.१९एष पारे समुद्रस्य हिरण्यपुरमारुजत्
हत्वा षष्टिसहस्राणि निवातकवचान्रणे
५.४८.२०एष देवान्सहेन्द्रेण जित्वा परपुरंजयः
अतर्पयन्महाबाहुरर्जुनो जातवेदसम्
नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह
५.४८.२१एवमेतौ महावीर्यौ तौ पश्यत समागतौ
वासुदेवार्जुनौ वीरौ समवेतौ महारथौ
५.४८.२२नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः
अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः
५.४८.२३एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः
नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम्
५.४८.२४एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान्
तत्र तत्रैव जायेते युद्धकाले पुनः पुनः
५.४८.२५तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित्
५.४८.२६शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम्
५.४८.२७सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ
दुर्योधन तदा तात स्मर्तासि वचनं मम
५.४८.२८नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता
५.४८.२९न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान्
तवैव हि मतं सर्वे कुरवः पर्युपासते
५.४८.३०त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ
५.४८.३१दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च
५.४८.३२कर्ण उवाच
५.४८.३३नैवमायुष्मता वाच्यं यन्मामात्थ पितामह
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान्
५.४८.३४किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे
न हि मे वृजिनं किंचिद्धार्तराष्ट्रा विदुः क्वचित्
५.४८.३५राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया
तथा दुर्योधनस्यापि स हि राज्ये समाहितः
५.४८.३६वैशंपायन उवाच
५.४८.३७कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत्
५.४८.३८यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति
नायं कलापि संपूर्णा पाण्डवानां महात्मनाम्
५.४८.३९अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम्
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः
५.४८.४०एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः
अवमन्यत तान्वीरान्देवपुत्रानरिंदमान्
५.४८.४१किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम्
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा
५.४८.४२दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्
धनंजयेन विक्रम्य किमनेन तदा कृतम्
५.४८.४३सहितान्हि कुरून्सर्वानभियातो धनंजयः
प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा
५.४८.४४गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते
५.४८.४५ननु तत्रापि पार्थेन भीमेन च महात्मना
यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः
५.४८.४६एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः
५.४८.४७भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन्
५.४८.४८यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप
न काममर्थलिप्सूनां वचनं कर्तुमर्हसि
५.४८.४९पुरा युद्धात्साधु मन्ये पाण्डवैः सह संगमम्
यद्वाक्यमर्जुनेनोक्तं संजयेन निवेदितम्
५.४८.५०सर्वं तदभिजानामि करिष्यति च पाण्डवः
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः
५.४८.५१अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः
ततः स संजयं राजा पर्यपृच्छत पाण्डवम्
५.४८.५२तदैव कुरवः सर्वे निराशा जीवितेऽभवन्
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते