५. उद्योगपर्व
५.४७.१धृतराष्ट्र उवाच

५.४७.२पृच्छामि त्वां संजय राजमध्ये; किमब्रवीद्वाक्यमदीनसत्त्वः
धनंजयस्तात युधां प्रणेता; दुरात्मनां जीवितच्छिन्महात्मा

५.४७.३संजय उवाच

५.४७.४दुर्योधनो वाचमिमां शृणोतु; यदब्रवीदर्जुनो योत्स्यमानः
युधिष्ठिरस्यानुमते महात्मा; धनंजयः शृण्वतः केशवस्य

५.४७.५अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः
अवोचन्मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम्

५.४७.६ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम्
यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम्

५.४७.७यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे
तथाशृण्वन्पाण्डवाः सृञ्जयाश्च; किरीटिना वाचमुक्तां समर्थाम्

५.४७.८इत्यब्रवीदर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः
अस्ति नूनं कर्म कृतं पुरस्ता;दनिर्विष्टं पापकं धार्तराष्ट्रैः

५.४७.९येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव
शैनेयेन ध्रुवमात्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च
युधिष्ठिरेणेन्द्रकल्पेन चैव; योऽपध्यानान्निर्दहेद्गां दिवं च

५.४७.१०तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तोऽर्थः सकलः पाण्डवानाम्
मा तत्कार्षीः पाण्डवार्थाय हेतो;रुपैहि युद्धं यदि मन्यसे त्वम्

५.४७.११यां तां वने दुःखशय्यामुवास; प्रव्राजितः पाण्डवो धर्मचारी
आशिष्यते दुःखतरामनर्था;मन्त्यां शय्यां धार्तराष्ट्रः परासुः

५.४७.१२ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन
अन्यायवृत्तः कुरुपाण्डवेया;नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा

५.४७.१३मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन
सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानोऽतिवेलम्

५.४७.१४यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत्तं वर्षपूगान्सुघोरम्
अवस्रष्टा कुरुषूद्वृत्तचेता;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.१५कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत्कक्षमग्निर्निदाघे
एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य

५.४७.१६यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम्
दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.१७महासिंहो गाव इव प्रविश्य; गदापाणिर्धार्तराष्ट्रानुपेत्य
यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.१८महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी
सकृद्रथेन प्रतियाद्रथौघा;न्पदातिसंघान्गदयाभिनिघ्नन्

५.४७.१९सैन्याननेकांस्तरसा विमृद्न;न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम्
छिन्दन्वनं परशुनेव शूर;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.२०तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य
पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम्

५.४७.२१हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशोऽधृष्टयोधम्
शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.२२उपासङ्गादुद्धरन्दक्षिणेन; परःशतान्नकुलश्चित्रयोधी
यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.२३सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो यामशेत
आशीविषः क्रुद्ध इव श्वसन्भृशं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.२४त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः
रथैः शुभ्रैः सैन्यमभिद्रवन्तो; दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः

५.४७.२५शिशून्कृतास्त्रानशिशुप्रकाशा;न्यदा द्रष्टा कौरवः पञ्च शूरान्
त्यक्त्वा प्राणान्केकयानाद्रवन्त;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.२६यदा गतोद्वाहमकूजनाक्षं; सुवर्णतारं रथमाततायी
दान्तैर्युक्तं सहदेवोऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः

५.४७.२७महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम्
सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.२८ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः
गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी; क्षेप्ता जनान्सहदेवस्तरस्वी

५.४७.२९यदा द्रष्टा द्रौपदेयान्महेषू;ञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान्
आशीविषान्घोरविषानिवायत;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.३०यदाभिमन्युः परवीरघाती; शरैः परान्मेघ इवाभिवर्षन्
विगाहिता कृष्णसमः कृतास्त्र;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.३१यदा द्रष्टा बालमबालवीर्यं; द्विषच्चमूं मृत्युमिवापतन्तम्
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.३२प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः
यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.३३वृद्धौ विराटद्रुपदौ महारथौ; पृथक्चमूभ्यामभिवर्तमानौ
यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.३४यदा कृतास्त्रो द्रुपदः प्रचिन्व;ञ्शिरांसि यूनां समरे रथस्थः
क्रुद्धः शरैश्छेत्स्यति चापमुक्तै;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.३५यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा
मत्स्यैः सार्धमनृशंसरूपै;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.३६ज्येष्ठं मात्स्यानामनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात्
यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.३७रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शंतनूजे
न जातु नः शत्रवो धारयेयु;रसंशयं सत्यमेतद्ब्रवीमि

५.४७.३८यदा शिखण्डी रथिनः प्रचिन्व;न्भीष्मं रथेनाभियाता वरूथी
दिव्यैर्हयैरवमृद्नन्रथौघां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.३९यदा द्रष्टा सृञ्जयानामनीके; धृष्टद्युम्नं प्रमुखे रोचमानम्
अस्त्रं यस्मै गुह्यमुवाच धीमा;न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः

५.४७.४०यदा स सेनापतिरप्रमेयः; पराभवन्निषुभिर्धार्तराष्ट्रान्
द्रोणं रणे शत्रुसहोऽभियाता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.४१ह्रीमान्मनीषी बलवान्मनस्वी; स लक्ष्मीवान्सोमकानां प्रबर्हः
न जातु तं शत्रवोऽन्ये सहेर;न्येषां स स्यादग्रणीर्वृष्णिसिंहः

५.४७.४२ब्रूयाच्च मा प्रवृणीष्वेति लोके; युद्धेऽद्वितीयं सचिवं रथस्थम्
शिनेर्नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम्

५.४७.४३यदा शिनीनामधिपो मयोक्तः; शरैः परान्मेघ इव प्रवर्षन्
प्रच्छादयिष्यञ्शरजालेन योधां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.४४यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर्दृढधन्वा महात्मा
सिंहस्येव गन्धमाघ्राय गावः; संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः

५.४७.४५स दीर्घबाहुर्दृढधन्वा महात्मा; भिन्द्याद्गिरीन्संहरेत्सर्वलोकान्
अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति

५.४७.४६चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान्
यथाविधं योगमाहुः प्रशस्तं; सर्वैर्गुणैः सात्यकिस्तैरुपेतः

५.४७.४७हिरण्मयं श्वेतहयैश्चतुर्भि;र्यदा युक्तं स्यन्दनं माधवस्य
द्रष्टा युद्धे सात्यकेर्वै सुयोधन;स्तदा तप्स्यत्यकृतात्मा स मन्दः

५.४७.४८यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुमुग्रम्
द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्यकृतात्मा स मन्दः

५.४७.४९यदा मौर्व्यास्तलनिष्पेषमुग्रं; महाशब्दं वज्रनिष्पेषतुल्यम्
विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः

५.४७.५०तदा मूढो धृतराष्ट्रस्य पुत्र;स्तप्ता युद्धे दुर्मतिर्दुःसहायः
दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद्रणाग्रे

५.४७.५१बलाहकादुच्चरन्तीव विद्यु;त्सहस्रघ्नी द्विषतां संगमेषु
अस्थिच्छिदो मर्मभिदो वमेच्छरां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.५२यदा द्रष्टा ज्यामुखाद्बाणसंघा;न्गाण्डीवमुक्तान्पततः शिताग्रान्
नागान्हयान्वर्मिणश्चाददानां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.५३यदा मन्दः परबाणान्विमुक्ता;न्ममेषुभिर्ह्रियमाणान्प्रतीपम्
तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रै;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.५४यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात्
प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.५५यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्योऽश्वगतांश्च योधान्
शरैर्हतान्पातितांश्चैव रङ्गे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

५.४७.५६पदातिसंघान्रथसंघान्समन्ता;द्व्यात्ताननः काल इवाततेषुः
प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः; शत्रूंस्तदा तप्स्यति मन्दबुद्धिः

५.४७.५७सर्वा दिशः संपतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम्
यदा द्रष्टा स्वबलं संप्रमूढं; तदा पश्चात्तप्स्यति मन्दबुद्धिः

५.४७.५८कांदिग्भूतं छिन्नगात्रं विसंज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम्
हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम्

५.४७.५९आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपालसंघम्
प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः

५.४७.६०यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश्च
तूणावक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः समेतान्

५.४७.६१उद्वर्तयन्दस्युसंघान्समेता;न्प्रवर्तयन्युगमन्यद्युगान्ते
यदा धक्ष्याम्यग्निवत्कौरवेयां;स्तदा तप्ता धृतराष्ट्रः सपुत्रः

५.४७.६२सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः
दर्पस्यान्ते विहिते वेपमानः; पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः

५.४७.६३पूर्वाह्णे मां कृतजप्यं कदाचि;द्विप्रः प्रोवाचोदकान्ते मनोज्ञम्
कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन्

५.४७.६४इन्द्रो वा ते हरिवान्वज्रहस्तः; पुरस्ताद्यातु समरेऽरीन्विनिघ्नन्
सुग्रीवयुक्तेन रथेन वा ते; पश्चात्कृष्णो रक्षतु वासुदेवः

५.४७.६५वव्रे चाहं वज्रहस्तान्महेन्द्रा;दस्मिन्युद्धे वासुदेवं सहायम्
स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद्विहितं दैवतैर्मे

५.४७.६६अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत्
ध्रुवं सर्वान्सोऽभ्यतीयादमित्रा;न्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता

५.४७.६७स बाहुभ्यां सागरमुत्तितीर्षे;न्महोदधिं सलिलस्याप्रमेयम्
तेजस्विनं कृष्णमत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत्

५.४७.६८गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतमतिप्रमाणम्
तस्यैव पाणिः सनखो विशीर्ये;न्न चापि किंचित्स गिरेस्तु कुर्यात्

५.४७.६९अग्निं समिद्धं शमयेद्भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत
हरेद्देवानाममृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत्

५.४७.७०यो रुक्मिणीमेकरथेन भोज्या;मुत्साद्य राज्ञां विषयं प्रसह्य
उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा

५.४७.७१अयं गान्धारांस्तरसा संप्रमथ्य; जित्वा पुत्रान्नग्नजितः समग्रान्
बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम्

५.४७.७२अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान्दन्तकूरे ममर्द
अनेन दग्धा वर्षपूगान्विनाथा; वाराणसी नगरी संबभूव

५.४७.७३यं स्म युद्धे मन्यतेऽन्यैरजेय;मेकलव्यं नाम निषादराजम्
वेगेनेव शैलमभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः

५.४७.७४तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम्
अपातयद्बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम्

५.४७.७५अयं सौभं योधयामास खस्थं; विभीषणं मायया शाल्वराजम्
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः

५.४७.७६प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरमसुराणामसह्यम्
महाबलो नरकस्तत्र भौमो; जहारादित्या मणिकुण्डले शुभे

५.४७.७७न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः
दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रमवारणीयम्

५.४७.७८जानन्तोऽस्य प्रकृतिं केशवस्य; न्ययोजयन्दस्युवधाय कृष्णम्
स तत्कर्म प्रतिशुश्राव दुष्कर;मैश्वर्यवान्सिद्धिषु वासुदेवः

५.४७.७९निर्मोचने षट्सहस्राणि हत्वा; संछिद्य पाशान्सहसा क्षुरान्तान्
मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोचनं चापि जगाम वीरः

५.४७.८०तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः
शेते स कृष्णेन हतः परासु;र्वातेनेव मथितः कर्णिकारः

५.४७.८१आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च
श्रिया वृतो यशसा चैव धीमा;न्प्रत्याजगामाप्रतिमप्रभावः

५.४७.८२तस्मै वरानददंस्तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत्
श्रमश्च ते युध्यमानस्य न स्या;दाकाशे वा अप्सु चैव क्रमः स्यात्

५.४७.८३शस्त्राणि गात्रे च न ते क्रमेर;न्नित्येव कृष्णश्च ततः कृतार्थः
एवंरूपे वासुदेवेऽप्रमेये; महाबले गुणसंपत्सदैव

५.४७.८४तमसह्यं विष्णुमनन्तवीर्य;माशंसते धार्तराष्ट्रो बलेन
यदा ह्येनं तर्कयते दुरात्मा; तच्चाप्ययं सहतेऽस्मान्समीक्ष्य

५.४७.८५पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं संप्रयुज्य
शक्यं हर्तुं पाण्डवानां ममत्वं; तद्वेदिता संयुगं तत्र गत्वा

५.४७.८६नमस्कृत्वा शांतनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव
शारद्वतायाप्रतिद्वन्द्विने च; योत्स्याम्यहं राज्यमभीप्समानः

५.४७.८७धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर्धर्मचारी
मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान्द्वादश पाण्डुपुत्राः

५.४७.८८अवाप्य कृच्छ्रं विहितं ह्यरण्ये; दीर्घं कालं चैकमज्ञातचर्याम्
ते ह्यकस्माज्जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः

५.४७.८९ते चेदस्मान्युध्यमानाञ्जयेयु;र्देवैरपीन्द्रप्रमुखैः सहायैः
धर्मादधर्मश्चरितो गरीया;निति ध्रुवं नास्ति कृतं न साधु

५.४७.९०न चेदिमं पुरुषं कर्मबद्धं; न चेदस्मान्मन्यतेऽसौ विशिष्टान्
आशंसेऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम्

५.४७.९१न चेदिदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म
इदं च तच्चापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः

५.४७.९२प्रत्यक्षं वः कुरवो यद्ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति
अन्यत्र युद्धात्कुरवः परीप्स;न्न युध्यतां शेष इहास्ति कश्चित्

५.४७.९३हत्वा त्वहं धार्तराष्ट्रान्सकर्णा;न्राज्यं कुरूणामवजेता समग्रम्
यद्वः कार्यं तत्कुरुध्वं यथास्व;मिष्टान्दारानात्मजांश्चोपभुङ्क्त

५.४७.९४अप्येवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः
सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः

५.४७.९५उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः
क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च

५.४७.९६तथा हि नो मन्यतेऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय
जनार्दनश्चाप्यपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः

५.४७.९७अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयमप्रमत्तः
दृष्टिश्च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति

५.४७.९८अनालब्धं जृम्भति गाण्डिवं धनु;रनालब्धा कम्पति मे धनुर्ज्या
बाणाश्च मे तूणमुखाद्विसृज्य; मुहुर्मुहुर्गन्तुमुशन्ति चैव

५.४७.९९सैक्यः कोशान्निःसरति प्रसन्नो; हित्वेव जीर्णामुरगस्त्वचं स्वाम्
ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन्

५.४७.१००गोमायुसंघाश्च वदन्ति रात्रौ; रक्षांस्यथो निष्पतन्त्यन्तरिक्षात्
मृगाः शृगालाः शितिकण्ठाश्च काका; गृध्रा बडाश्चैव तरक्षवश्च

५.४७.१०१सुपर्णपाताश्च पतन्ति पश्चा;द्दृष्ट्वा रथं श्वेतहयप्रयुक्तम्
अहं ह्येकः पार्थिवान्सर्वयोधा;ञ्शरान्वर्षन्मृत्युलोकं नयेयम्

५.४७.१०२समाददानः पृथगस्त्रमार्गा;न्यथाग्निरिद्धो गहनं निदाघे
स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच्च शक्रो विवेद

५.४७.१०३वधे धृतो वेगवतः प्रमुञ्च;न्नाहं प्रजाः किंचिदिवावशिष्ये
शान्तिं लप्स्ये परमो ह्येष भावः; स्थिरो मम ब्रूहि गावल्गणे तान्

५.४७.१०४नित्यं पुनः सचिवैर्यैरवोच;द्देवानपीन्द्रप्रमुखान्सहायान्
तैर्मन्यते कलहं संप्रयुज्य; स धार्तराष्ट्रः पश्यत मोहमस्य

५.४७.१०५वृद्धो भीष्मः शांतनवः कृपश्च; द्रोणः सपुत्रो विदुरश्च धीमान्
एते सर्वे यद्वदन्ते तदस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे