५.५१.१धृतराष्ट्र उवाच
५.५१.२यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः
५.५१.३तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम्
५.५१.४अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः
५.५१.५द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ
माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम
५.५१.६घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः
५.५१.७सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम्
वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा
५.५१.८न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः
५.५१.९अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च
एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह
५.५१.१०त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत्
जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम्
५.५१.११यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि
ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा
५.५१.१२कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः
युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः
५.५१.१३नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः
तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः
५.५१.१४शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि संजय
न तु शेषं शराः कुर्युरस्तास्तात किरीटिना
५.५१.१५अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः
उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः
५.५१.१६अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः
गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम्
५.५१.१७अपि सा रथघोषेण भयार्ता सव्यसाचिनः
वित्रस्ता बहुला सेना भारती प्रतिभाति मे
५.५१.१८यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन्
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान्
५.५१.१९यदोद्वमन्निशितान्बाणसंघा;न्स्थाताततायी समरे किरीटी
सृष्टोऽन्तकः सर्वहरो विधात्रा; यथा भवेत्तद्वदवारणीयः
५.५१.२०यदा ह्यभीक्ष्णं सुबहून्प्रकारा;ञ्श्रोतास्मि तानावसथे कुरूणाम्
तेषां समन्ताच्च तथा रणाग्रे; क्षयः किलायं भरतानुपैति