५.६९.१धृतराष्ट्र उवाच
५.६९.२चक्षुष्मतां वै स्पृहयामि संजय; द्रक्ष्यन्ति ये वासुदेवं समीपे
विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश्च
५.६९.३ईरयन्तं भारतीं भारताना;मभ्यर्चनीयां शंकरीं सृञ्जयानाम्
बुभूषद्भिर्ग्रहणीयामनिन्द्यां; परासूनामग्रहणीयरूपाम्
५.६९.४समुद्यन्तं सात्वतमेकवीरं; प्रणेतारमृषभं यादवानाम्
निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि
५.६९.५द्रष्टारो हि कुरवस्तं समेता; महात्मानं शत्रुहणं वरेण्यम्
ब्रुवन्तं वाचमनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान्
५.६९.६ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम्
अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम
५.६९.७सहस्रशीर्षं पुरुषं पुराण;मनादिमध्यान्तमनन्तकीर्तिम्
शुक्रस्य धातारमजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये
५.६९.८त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणामथ नागरक्षसाम्
नराधिपानां विदुषां प्रधान;मिन्द्रानुजं तं शरणं प्रपद्ये