५. उद्योगपर्व
५.७२.१भीमसेन उवाच

५.७२.२यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन
तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः

५.७२.३अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः
नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः

५.७२.४प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः

५.७२.५अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः

५.७२.६म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम्
तादृशेन शमं कृष्ण मन्ये परमदुष्करम्

५.७२.७सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः
प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च

५.७२.८स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः
स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः

५.७२.९दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः

५.७२.१०पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः

५.७२.११दुर्योधनस्य क्रोधेन भारता मधुसूदन
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः

५.७२.१२अष्टादशेमे राजानः प्रख्याता मधुसूदन
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान्

५.७२.१३असुराणां समृद्धानां ज्वलतामिव तेजसा
पर्यायकाले धर्मस्य प्राप्ते बलिरजायत

५.७२.१४हैहयानामुदावर्तो नीपानां जनमेजयः
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः

५.७२.१५अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः
अर्कजश्च बलीहानां चीनानां धौतमूलकः

५.७२.१६हयग्रीवो विदेहानां वरप्रश्च महौजसाम्
बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः

५.७२.१७सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः
धारणश्चेन्द्रवत्सानां मुकुटानां विगाहनः

५.७२.१८शमश्च नन्दिवेगानामित्येते कुलपांसनाः
युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः

५.७२.१९अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः

५.७२.२०तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम्
कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम्

५.७२.२१अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः
नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन्

५.७२.२२अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत्

५.७२.२३वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम्

५.७२.२४अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति
अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने