५.७१.१भगवानुवाच
५.७१.२संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः
५.७१.३तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत्
५.७१.४न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते
आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत्
५.७१.५जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते
५.७१.६न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर
विक्रमस्व महाबाहो जहि शत्रूनरिंदम
५.७१.७अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः
कृतमित्राः कृतबला धार्तराष्ट्राः परंतप
५.७१.८न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः
५.७१.९यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि
तावदेते हरिष्यन्ति तव राज्यमरिंदम
५.७१.१०नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात्
अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम
५.७१.११एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि
नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम्
५.७१.१२पितामहस्य द्रोणस्य विदुरस्य च धीमतः
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः
५.७१.१३दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम्
यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा
न चापत्रपते पापो नृशंसस्तेन कर्मणा
५.७१.१४तथाशीलसमाचारे राजन्मा प्रणयं कृथाः
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत
५.७१.१५वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम्
श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह
५.७१.१६एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम्
नामधेयं च गोत्रं च तदप्येषां न शिष्यते
५.७१.१७कालेन महता चैषां भविष्यति पराभवः
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः
५.७१.१८एताश्चान्याश्च परुषा वाचः स समुदीरयन्
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम्
५.७१.१९ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम्
अश्रुकण्ठा रुदन्तश्च सभायामासते तदा
५.७१.२०न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः
५.७१.२१कुलीनस्य च या निन्दा वधश्चामित्रकर्शन
महागुणो वधो राजन्न तु निन्दा कुजीविका
५.७१.२२तदैव निहतो राजन्यदैव निरपत्रपः
निन्दितश्च महाराज पृथिव्यां सर्वराजसु
५.७१.२३ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम्
प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः
५.७१.२४वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः
जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः
५.७१.२५सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः
५.७१.२६अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति
५.७१.२७मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान्
तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः
५.७१.२८ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः
५.७१.२९त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत
५.७१.३०गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि
वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे
५.७१.३१शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः
५.७१.३२तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते
हते दुर्योधने राजन्यदन्यत्क्रियतामिति
५.७१.३३यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन्
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम्
५.७१.३४कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम्
निशाम्य विनिवर्तिष्ये जयाय तव भारत
५.७१.३५सर्वथा युद्धमेवाहमाशंसामि परैः सह
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे
५.७१.३६मृगाः शकुन्ताश्च वदन्ति घोरं; हस्त्यश्वमुख्येषु निशामुखेषु
घोराणि रूपाणि तथैव चाग्नि;र्वर्णान्बहून्पुष्यति घोररूपान्
मनुष्यलोकक्षपणोऽथ घोरो; नो चेदनुप्राप्त इहान्तकः स्यात्
५.७१.३७शस्त्राणि पत्रं कवचान्रथांश्च; नागान्ध्वजांश्च प्रतिपादयित्वा
योधाश्च सर्वे कृतनिश्रमास्ते; भवन्तु हस्त्यश्वरथेषु यत्ताः
सांग्रामिकं ते यदुपार्जनीयं; सर्वं समग्रं कुरु तन्नरेन्द्र
५.७१.३८दुर्योधनो न ह्यलमद्य दातुं; जीवंस्तवैतन्नृपते कथंचित्
यत्ते पुरस्तादभवत्समृद्धं; द्यूते हृतं पाण्डवमुख्य राज्यम्