५.७६.१अर्जुन उवाच
५.७६.२उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप
५.७६.३नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात्
५.७६.४अफलं मन्यसे चापि पुरुषस्य पराक्रमम्
न चान्तरेण कर्माणि पौरुषेण फलोदयः
५.७६.५तदिदं भाषितं वाक्यं तथा च न तथैव च
न चैतदेवं द्रष्टव्यमसाध्यमिति किंचन
५.७६.६किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः
५.७६.७संपाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः
५.७६.८पाण्डवानां कुरूणां च भवान्परमकः सुहृत्
सुराणामसुराणां च यथा वीर प्रजापतिः
५.७६.९कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम्
अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम्
५.७६.१०एवं चेत्कार्यतामेति कार्यं तव जनार्दन
गमनादेवमेव त्वं करिष्यसि न संशयः
५.७६.११चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि
भविष्यति तथा सर्वं यथा तव चिकीर्षितम्
५.७६.१२शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम्
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः
५.७६.१३न स नार्हति दुष्टात्मा वधं ससुतबान्धवः
येन धर्मसुते दृष्ट्वा न सा श्रीरुपमर्षिता
५.७६.१४यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन
उपायेन नृशंसेन हृता दुर्द्यूतदेविना
५.७६.१५कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते
५.७६.१६अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः
५.७६.१७न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि
क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा
५.७६.१८अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम्
तदेव क्रियतामाशु न विचार्यमतस्त्वया
५.७६.१९जानासि हि यथा तेन द्रौपदी पापबुद्धिना
परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम्
५.७६.२०स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव
न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे
५.७६.२१तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम्
तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम्