५.७७.१भगवानुवाच
५.७७.२एवमेतन्महाबाहो यथा वदसि पाण्डव
सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः
५.७७.३क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम्
ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत्फलम्
५.७७.४तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम्
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम्
५.७७.५तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः
दैवे च मानुषे चैव संयुक्तं लोककारणम्
५.७७.६अहं हि तत्करिष्यामि परं पुरुषकारतः
दैवं तु न मया शक्यं कर्म कर्तुं कथंचन
५.७७.७स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः
न हि संतप्यते तेन तथारूपेण कर्मणा
५.७७.८तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा
५.७७.९स हि त्यागेन राज्यस्य न शमं समुपेष्यति
अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः
५.७७.१०न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट्
याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः
५.७७.११न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम्
उक्तं प्रयोजनं तत्र धर्मराजेन भारत
५.७७.१२तथा पापस्तु तत्सर्वं न करिष्यति कौरवः
तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति
५.७७.१३मम चापि स वध्यो वै जगतश्चापि भारत
येन कौमारके यूयं सर्वे विप्रकृतास्तथा
५.७७.१४विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे
५.७७.१५असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः
न मया तद्गृहीतं च पापं तस्य चिकीर्षितम्
५.७७.१६जानासि हि महाबाहो त्वमप्यस्य परं मतम्
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि
५.७७.१७स जानंस्तस्य चात्मानं मम चैव परं मतम्
अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे
५.७७.१८यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया
विधानविहितं पार्थ कथं शर्म भवेत्परैः
५.७७.१९यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः
५.७७.२०कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम्
याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि
५.७७.२१तदैव ते पराभूता यदा संकल्पितास्त्वया
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः
५.७७.२२सर्वथा तु मया कार्यं धर्मराजस्य शासनम्
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः