५.८०.१वैशंपायन उवाच
५.८०.२राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम्
कृष्णा दाशार्हमासीनमब्रवीच्छोककर्षिता
५.८०.३सुता द्रुपदराजस्य स्वसितायतमूर्धजा
संपूज्य सहदेवं च सात्यकिं च महारथम्
५.८०.४भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः
अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी
५.८०.५विदितं ते महाबाहो धर्मज्ञ मधुसूदन
यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात्
५.८०.६धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन
यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः
५.८०.७युधिष्ठिरेण दाशार्ह तच्चापि विदितं तव
यथोक्तः संजयश्चैव तच्च सर्वं श्रुतं त्वया
५.८०.८पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते
कुशस्थलं वृकस्थलमासन्दी वारणावतम्
५.८०.९अवसानं महाबाहो किंचिदेव तु पञ्चमम्
इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव
५.८०.१०तच्चापि नाकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः
युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिमिच्छतः
५.८०.११अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः
संधिमिच्छेन्न कर्तव्यस्तत्र गत्वा कथंचन
५.८०.१२शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह
धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम्
५.८०.१३न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन
तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन
५.८०.१४साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः
मोक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता
५.८०.१५तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत
त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः
५.८०.१६एतत्समर्थं पार्थानां तव चैव यशस्करम्
क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम्
५.८०.१७क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः
अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता
५.८०.१८अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात्
गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक्
५.८०.१९यथावध्ये भवेद्दोषो वध्यमाने जनार्दन
स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः
५.८०.२०यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु
पाण्डवैः सह दाशार्ह सृञ्जयैश्च ससैनिकैः
५.८०.२१पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन
का नु सीमन्तिनी मादृक्पृथिव्यामस्ति केशव
५.८०.२२सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता
धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी
५.८०.२३आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः
महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम्
५.८०.२४सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः
अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः
५.८०.२५साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता
पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव
५.८०.२६जीवत्सु कौरवेयेषु पाञ्चालेष्वथ वृष्णिषु
दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता
५.८०.२७निरामर्षेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु
त्राहि मामिति गोविन्द मनसा काङ्क्षितोऽसि मे
५.८०.२८यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत्
वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे
५.८०.२९अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति
मयोक्ते यत्र निर्मुक्ता वनवासाय केशव
५.८०.३०एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन
त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम्
५.८०.३१नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः
स्नुषा भवामि धर्मेण साहं दासीकृताभवम्
५.८०.३२धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति
५.८०.३३यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि
धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम्
५.८०.३४इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम्
सुनीलमसितापाङ्गी पुण्यगन्धाधिवासितम्
५.८०.३५सर्वलक्षणसंपन्नं महाभुजगवर्चसम्
केशपक्षं वरारोहा गृह्य सव्येन पाणिना
५.८०.३६पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी
अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत्
५.८०.३७अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः
स्मर्तव्यः सर्वकालेषु परेषां संधिमिच्छता
५.८०.३८यदि भीमार्जुनौ कृष्ण कृपणौ संधिकामुकौ
पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः
५.८०.३९पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन
अभिमन्युं पुरस्कृत्य योत्स्यन्ति कुरुभिः सह
५.८०.४०दुःशासनभुजं श्यामं संछिन्नं पांसुगुण्ठितम्
यद्यहं तं न पश्यामि का शान्तिर्हृदयस्य मे
५.८०.४१त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे
निधाय हृदये मन्युं प्रदीप्तमिव पावकम्
५.८०.४२विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम्
योऽयमद्य महाबाहुर्धर्मं समनुपश्यति
५.८०.४३इत्युक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना
रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम्
५.८०.४४स्तनौ पीनायतश्रोणी सहितावभिवर्षती
द्रवीभूतमिवात्युष्णमुत्सृजद्वारि नेत्रजम्
५.८०.४५तामुवाच महाबाहुः केशवः परिसान्त्वयन्
अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः
५.८०.४६एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः
हतमित्रा हतबला येषां क्रुद्धासि भामिनि
५.८०.४७अहं च तत्करिष्यामि भीमार्जुनयमैः सह
युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात्
५.८०.४८धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः
शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः
५.८०.४९चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत्
द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत्
५.८०.५०सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम्
हतामित्राञ्श्रिया युक्तानचिराद्द्रक्ष्यसे पतीन्