५.७९.१सहदेव उवाच
५.७९.२यदेतत्कथितं राज्ञा धर्म एष सनातनः
यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम
५.७९.३यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः
५.७९.४कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम्
अवधेन प्रशाम्येत मम मन्युः सुयोधने
५.७९.५यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे
५.७९.६सात्यकिरुवाच
५.७९.७सत्यमाह महाबाहो सहदेवो महामतिः
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत्
५.७९.८जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने
तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान्
५.७९.९तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम
५.७९.१०वैशंपायन उवाच
५.७९.११एवं वदति वाक्यं तु युयुधाने महामतौ
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः
५.७९.१२सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन्
साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः