५. उद्योगपर्व
५.८३.१वैशंपायन उवाच

५.८३.२तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम्
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम्

५.८३.३द्रोणं च संजयं चैव विदुरं च महामतिम्
दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम्

५.८३.४अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे

५.८३.५सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च

५.८३.६उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः

५.८३.७तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे

५.८३.८स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः

५.८३.९स चेत्तुष्यति दाशार्ह उपचारैररिंदमः
कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु

५.८३.१०तस्य पूजार्थमद्यैव संविधत्स्व परंतप
सभाः पथि विधीयन्तां सर्वकामसमाहिताः

५.८३.११यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे

५.८३.१२ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम्
ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः

५.८३.१३तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे

५.८३.१४ततो देशेषु देशेषु रमणीयेषु भागशः
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः

५.८३.१५आसनानि विचित्राणि युक्तानि विविधैर्गुणैः
स्त्रियो गन्धानलंकारान्सूक्ष्माणि वसनानि च

५.८३.१६गुणवन्त्यन्नपानानि भोज्यानि विविधानि च
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः

५.८३.१७विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले
विदधे कौरवो राजा बहुरत्नां मनोरमाम्

५.८३.१८एतद्विधाय वै सर्वं देवार्हमतिमानुषम्
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा

५.८३.१९ताः सभाः केशवः सर्वा रत्नानि विविधानि च
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत्