५.८४.१धृतराष्ट्र उवाच
५.८४.२उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः
वृकस्थले निवसति स च प्रातरिहेष्यति
५.८४.३आहुकानामधिपतिः पुरोगः सर्वसात्वताम्
महामना महावीर्यो महामात्रो जनार्दनः
५.८४.४स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः
त्रयाणामपि लोकानां भगवान्प्रपितामहः
५.८४.५वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः
५.८४.६तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने
प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु
५.८४.७एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः
चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश
५.८४.८नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः
अष्टानुचरमेकैकमष्टौ दास्यामि केशवे
५.८४.९दासीनामप्रजातानां शुभानां रुक्मवर्चसाम्
शतमस्मै प्रदास्यामि दासानामपि तावतः
५.८४.१०आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम्
तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च
५.८४.११अजिनानां सहस्राणि चीनदेशोद्भवानि च
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः
५.८४.१२दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः
तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः
५.८४.१३एकेनापि पतत्यह्ना योजनानि चतुर्दश
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम्
५.८४.१४यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते
ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा
५.८४.१५मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलंकृताः
५.८४.१६स्वलंकृताश्च कल्याण्यः पादैरेव सहस्रशः
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम्
५.८४.१७नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम्
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः
५.८४.१८सस्त्रीपुरुषबालं हि नगरं मधुसूदनम्
उदीक्षते महात्मानं भानुमन्तमिव प्रजाः
५.८४.१९महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम्
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात्
५.८४.२०दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम्
तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलंकृतम्
५.८४.२१एतद्धि रुचिराकारैः प्रासादैरुपशोभितम्
शिवं च रमणीयं च सर्वर्तु सुमहाधनम्
५.८४.२२सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च
यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम्