५.९१.१भगवानुवाच
५.९१.२यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः
यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत्
५.९१.३धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते
तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत्
५.९१.४सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम्
शृणुष्वागमने हेतुं विदुरावहितो भव
५.९१.५दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्
५.९१.६पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम्
५.९१.७धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः
५.९१.८मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन्
न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः
५.९१.९सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया
कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम्
५.९१.१०सेयमापन्महाघोरा कुरुष्वेव समुत्थिता
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः
५.९१.११व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः
५.९१.१२आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन्
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम्
५.९१.१३तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति
५.९१.१४हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया
५.९१.१५हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति
५.९१.१६ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते
सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः
५.९१.१७न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान्
५.९१.१८उभयोः साधयन्नर्थमहमागत इत्युत
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम्
५.९१.१९मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्
न चेदादास्यते बालो दिष्टस्य वशमेष्यति
५.९१.२०अहापयन्पाण्डवार्थं यथाव;च्छमं कुरूणां यदि चाचरेयम्
पुण्यं च मे स्याच्चरितं महार्थं; मुच्येरंश्च कुरवो मृत्युपाशात्
५.९१.२१अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम्
अवेक्षेरन्धार्तराष्ट्राः समर्थां; मां च प्राप्तं कुरवः पूजयेयुः
५.९१.२२न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः
५.९१.२३वैशंपायन उवाच
५.९१.२४इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः