५. उद्योगपर्व
५.९२.१वैशंपायन उवाच

५.९२.२तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा
शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी

५.९२.३धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः
शृण्वतो विविधा वाचो विदुरस्य महात्मनः

५.९२.४कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः
अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी

५.९२.५ततस्तु स्वरसंपन्ना बहवः सूतमागधाः
शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन्

५.९२.६तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम्
सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः

५.९२.७कृतोदकार्यजप्यः स हुताग्निः समलंकृतः
तत आदित्यमुद्यन्तमुपातिष्ठत माधवः

५.९२.८अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः
संध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम्

५.९२.९आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम्
कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान्

५.९२.१०त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना

५.९२.११ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः
ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः

५.९२.१२विसृष्टवन्तं रत्नानि दाशार्हमपराजितम्
तिष्ठन्तमुपसंगम्य ववन्दे सारथिस्तदा

५.९२.१३तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम्

५.९२.१४अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः
कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन्

५.९२.१५कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः

५.९२.१६अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित्
सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम्

५.९२.१७ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः
द्वितीयेन रथेनैनमन्वयातां परंतपम्

५.९२.१८सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः
पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि

५.९२.१९तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः
गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः

५.९२.२०संमृष्टसंसिक्तरजः प्रतिपेदे महापथम्
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन्

५.९२.२१ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च

५.९२.२२प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः
परिवार्य रथं शौरेरगच्छन्त परंतपाः

५.९२.२३ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः

५.९२.२४गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम्

५.९२.२५पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम्
सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम्

५.९२.२६वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत

५.९२.२७संपूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ

५.९२.२८ततः सभां समासाद्य केशवस्यानुयायिनः
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन्

५.९२.२९ततः सा समितिः सर्वा राज्ञाममिततेजसाम्
संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया

५.९२.३०ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः
श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम्

५.९२.३१आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम्
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात्

५.९२.३२नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः

५.९२.३३पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः
ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादयञ्श्रिया

५.९२.३४अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ
वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः

५.९२.३५धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्

५.९२.३६अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः
सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः

५.९२.३७उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे
तानि राजसहस्राणि समुत्तस्थुः समन्ततः

५.९२.३८आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम्
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात्

५.९२.३९स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः

५.९२.४०तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम्
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम्

५.९२.४१तत्र तिष्ठन्स दाशार्हो राजमध्ये परंतपः
अपश्यदन्तरिक्षस्थानृषीन्परपुरंजयः

५.९२.४२ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन्
अभ्यभाषत दाशार्हो भीष्मं शांतनवं शनैः

५.९२.४३पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा

५.९२.४४नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम्
पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम्

५.९२.४५ऋषीञ्शांतनवो दृष्ट्वा सभाद्वारमुपस्थितान्
त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत्

५.९२.४६आसनान्यथ मृष्टानि महान्ति विपुलानि च
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः

५.९२.४७तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत
निषसादासने कृष्णो राजानश्च यथासनम्

५.९२.४८दुःशासनः सात्यकये ददावासनमुत्तमम्
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे

५.९२.४९अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ
एकासने महात्मानौ निषीदतुरमर्षणौ

५.९२.५०गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः
निषसादासने राजा सहपुत्रो विशां पते

५.९२.५१विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत्

५.९२.५२चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः
अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम्

५.९२.५३अतसीपुष्पसंकाशः पीतवासा जनार्दनः
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः

५.९२.५४ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम्
न तत्र कश्चित्किंचिद्धि व्याजहार पुमान्क्वचित्