५. उद्योगपर्व
५.९७.१नारद उवाच

५.९७.२एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम्
पातालमिति विख्यातं दैत्यदानवसेवितम्

५.९७.३इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः
प्रविशन्तो महानादं नदन्ति भयपीडिताः

५.९७.४अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः
व्यापारेण धृतात्मानं निबद्धं समबुध्यत

५.९७.५अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः
अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते

५.९७.६अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि
उत्तिष्ठति सुवर्णाभं वार्भिरापूरयञ्जगत्

५.९७.७यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तयः
तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमम्

५.९७.८ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः
मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति

५.९७.९अत्र नानाविधाकारास्तिमयो नैकरूपिणः
अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः

५.९७.१०अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः
मृता दिवसतः सूत पुनर्जीवन्ति ते निशि

५.९७.११उदये नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः
अमृतं स्पृश्य संस्पर्शात्संजीवयति देहिनः

५.९७.१२अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः
दैतेया निवसन्ति स्म वासवेन हृतश्रियः

५.९७.१३अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः
भूतये सर्वभूतानामचरत्तप उत्तमम्

५.९७.१४अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः
त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः

५.९७.१५यत्रतत्रशयो नित्यं येनकेनचिदाशितः
येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते

५.९७.१६ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः
प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः

५.९७.१७पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः
वरयिष्याव तं गत्वा यत्नमास्थाय मातले

५.९७.१८अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया
आ प्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति

५.९७.१९नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै
पितरं मातरं वापि नास्य जानाति कश्चन

५.९७.२०अतः किल महानग्निरन्तकाले समुत्थितः
धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम्

५.९७.२१कण्व उवाच

५.९७.२२मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम्
न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम्