५. उद्योगपर्व
५.९६.१कण्व उवाच

५.९६.२मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया

५.९६.३नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः
स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः

५.९६.४मातलिर्नारदेनैवं संपृष्टः पथि गच्छता
यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति

५.९६.५तमुवाचाथ स मुनिर्गच्छावः सहिताविति
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः

५.९६.६अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम्
दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले

५.९६.७अवगाह्य ततो भूमिमुभौ मातलिनारदौ
ददृशाते महात्मानौ लोकपालमपां पतिम्

५.९६.८तत्र देवर्षिसदृशीं पूजां प्राप स नारदः
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत

५.९६.९तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः

५.९६.१०नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम्
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः

५.९६.११नारद उवाच

५.९६.१२दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः
पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत्

५.९६.१३एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः
एष तं शीलवृत्तेन शौचेन च विशिष्यते

५.९६.१४एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः
रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः

५.९६.१५ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम्
आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः

५.९६.१६भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम्
यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे

५.९६.१७एतानि हृतराज्यानां दैतेयानां स्म मातले
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत

५.९६.१८अक्षयाणि किलैतानि विवर्तन्ते स्म मातले
अनुभावप्रयुक्तानि सुरैरवजितानि ह

५.९६.१९अत्र राक्षसजात्यश्च भूतजात्यश्च मातले
दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः

५.९६.२०अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता

५.९६.२१एष गाण्डीमयश्चापो लोकसंहारसंभृतः
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः

५.९६.२२एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम्
सहस्रशतसंख्येन प्राणेन सततं ध्रुवम्

५.९६.२३अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु
सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना

५.९६.२४एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम्
पुत्राः सलिलराजस्य धारयन्ति महोदयम्

५.९६.२५एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम्
सर्वतः सलिलं शीतं जीमूत इव वर्षति

५.९६.२६एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम्
तमसा मूर्छितं याति येन नार्छति दर्शनम्

५.९६.२७बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले
तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम्