६. भीष्मपर्व
६.१०५.१धृतराष्ट्र उवाच

६.१०५.२कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम्
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम्

६.१०५.३केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम्
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः

६.१०५.४कथं शांतनवो भीष्मः स तस्मिन्दशमेऽहनि
अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः

६.१०५.५न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम्
कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः

६.१०५.६संजय उवाच

६.१०५.७नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत्
युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ
निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः

६.१०५.८अनेकशतसाहस्रास्तावकानां महारथाः
रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम्

६.१०५.९यथाप्रतिज्ञं कौरव्य स चापि समितिंजयः
पार्थानामकरोद्भीष्मः सततं समितिक्षयम्

६.१०५.१०युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः
पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन्

६.१०५.११दशमेऽहनि संप्राप्ते तताप रिपुवाहिनीम्
कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः

६.१०५.१२न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज
अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम्

६.१०५.१३अथोपायान्महाराज सव्यसाची परंतपः
त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः

६.१०५.१४सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे

६.१०५.१५तस्य शब्देन वित्रस्तास्तावका भरतर्षभ
सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात्

६.१०५.१६जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम्
दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः

६.१०५.१७एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः
दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम्

६.१०५.१८पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः
पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे

६.१०५.१९यथा पशुगणान्पालः संकालयति कानने
तथेदं मामकं सैन्यं काल्यते शत्रुतापन

६.१०५.२०धनंजयशरैर्भग्नं द्रवमाणमितस्ततः
भीमो ह्येष दुराधर्षो विद्रावयति मे बलम्

६.१०५.२१सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ
अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम

६.१०५.२२धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः
व्यद्रावयेतां सहसा सैन्यं मम महाबलौ

६.१०५.२३वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत

६.१०५.२४ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम
पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव

६.१०५.२५एवमुक्तो महाराज पिता देवव्रतस्तव
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः
तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः

६.१०५.२६दुर्योधन विजानीहि स्थिरो भव विशां पते
पूर्वकालं तव मया प्रतिज्ञातं महाबल

६.१०५.२७हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम्
संग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम्
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ

६.१०५.२८अद्य चापि महत्कर्म प्रकरिष्ये महाहवे
अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान्

६.१०५.२९अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत्
भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे

६.१०५.३०इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः
आससाद दुराधर्षः पाण्डवानामनीकिनीम्

६.१०५.३१अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ
आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन्

६.१०५.३२दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन

६.१०५.३३पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः

६.१०५.३४हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम्
सारोहाणां महाराज हयानां चायुतं पुनः

६.१०५.३५पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः
प्रजज्वाल रणे भीष्मो विधूम इव पावकः

६.१०५.३६न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम्
उत्तरं मार्गमास्थाय तपन्तमिव भास्करम्

६.१०५.३७ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः
वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः

६.१०५.३८स युध्यमानो बहुभिर्भीष्मः शांतनवस्तदा
अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः

६.१०५.३९पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन्
महत्या सेनया सार्धं ततो युद्धमवर्तत