६.१०६.१संजय उवाच
६.१०६.२अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम्
शिखण्डिनमथोवाच समभ्येहि पितामहम्
६.१०६.३न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात्
६.१०६.४एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
६.१०६.५धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम्
६.१०६.६विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः
६.१०६.७नकुलः सहदेवश्च धर्मराजश्च वीर्यवान्
तथेतराणि सैन्यानि सर्वाण्येव विशां पते
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
६.१०६.८प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान्
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु
६.१०६.९चित्रसेनो महाराज चेकितानं समभ्ययात्
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा
६.१०६.१०धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम्
त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत्
६.१०६.११भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम्
त्वरमाणो महाराज सौमदत्तिर्न्यवारयत्
६.१०६.१२तथैव नकुलं वीरं किरन्तं सायकान्बहून्
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम्
६.१०६.१३सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति
वारयामास संक्रुद्धः कृपः शारद्वतो युधि
६.१०६.१४राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम्
भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली
६.१०६.१५सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत्
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति
सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत्
६.१०६.१६विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ
अश्वत्थामा ततः क्रुद्धो वारयामास भारत
६.१०६.१७तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम्
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत्
६.१०६.१८अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम्
भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश
दुःशासनो महेष्वासो वारयामास संयुगे
६.१०६.१९अन्ये च तावका योधाः पाण्डवानां महारथान्
भीष्मायाभिमुखं यातान्वारयामासुराहवे
६.१०६.२०धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः
अभिद्रवत संरब्धा भीष्ममेकं महाबलम्
६.१०६.२१एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः
अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः
६.१०६.२२अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः
किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः
६.१०६.२३इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति
६.१०६.२४आगच्छतस्तान्समरे वार्योघान्प्रबलानिव
न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः
६.१०६.२५दुःशासनो महाराज भयं त्यक्त्वा महारथः
भीष्मस्य जीविताकाङ्क्षी धनंजयमुपाद्रवत्
६.१०६.२६तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति
अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथान्
६.१०६.२७तत्राद्भुतमपश्याम चित्ररूपं विशां पते
दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत
६.१०६.२८यथा वारयते वेला क्षुभितं वै महार्णवम्
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्
६.१०६.२९उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत
६.१०६.३०तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ
समीयतुर्महासंख्ये मयशक्रौ यथा पुरा
६.१०६.३१दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः
वासुदेवं च विंशत्या ताडयामास संयुगे
६.१०६.३२ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम्
दुःशासनं शतेनाजौ नाराचानां समार्पयत्
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे
६.१०६.३३दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः
ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः
६.१०६.३४ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः
६.१०६.३५सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव
६.१०६.३६दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः
पर्वणीव सुसंक्रुद्धो राहुरुग्रो निशाकरम्
६.१०६.३७पीड्यमानो बलवता पुत्रस्तव विशां पते
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः
६.१०६.३८तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी
आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः
६.१०६.३९सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः
अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत्
६.१०६.४०तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून्
६.१०६.४१अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव
यतमानस्य पार्थस्य तदद्भुतमिवाभवत्
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव
६.१०६.४२ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके
प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान्
६.१०६.४३न्यमज्जंस्ते महाराज तस्य काये महात्मनः
यथा हंसा महाराज तडागं प्राप्य भारत
६.१०६.४४पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत्
अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा
६.१०६.४५प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशां पते
अवारयत्ततः शूरो भूय एव पराक्रमी
६.१०६.४६शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम्
निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात्