६. भीष्मपर्व
६.१०९.१संजय उवाच

६.१०९.२भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः

६.१०९.३चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा
दशैते तावका योधा भीमसेनमयोधयन्

६.१०९.४महत्या सेनया युक्ता नानादेशसमुत्थया
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः

६.१०९.५शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत्
कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः

६.१०९.६चित्रसेनो विकर्णश्च भगदत्तश्च मारिष
दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन्

६.१०९.७सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत्
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः
दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः

६.१०९.८स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक्
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान्
विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः

६.१०९.९शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः
कृपस्य सशरं चापं मध्ये चिच्छेद भारत
अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः

६.१०९.१०विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत्
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः

६.१०९.११विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम्
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः

६.१०९.१२अथान्यद्धनुरादाय गौतमो रथिनां वरः
भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः

६.१०९.१३स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः
ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान्
गौतमं ताडयामास शरैर्बहुभिराहवे

६.१०९.१४सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः

६.१०९.१५हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे

६.१०९.१६तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः

६.१०९.१७स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः

६.१०९.१८अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः
महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः

६.१०९.१९नातीव ममृषे शल्यो भीमसेनस्य विक्रमम्
स संधाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान्
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत्

६.१०९.२०कृपश्च कृतवर्मा च भगदत्तश्च मारिष
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे

६.१०९.२१दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः

६.१०९.२२स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः

६.१०९.२३तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि

६.१०९.२४विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान्
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्

६.१०९.२५तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः
ताडयामास समरे सिंहवच्च ननाद च

६.१०९.२६ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम्
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन्

६.१०९.२७सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः

६.१०९.२८शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः
प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम्

६.१०९.२९ततस्तु सशरं चापं सात्वतस्य महात्मनः
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत्

६.१०९.३०अथान्यद्धनुरादाय कृतवर्मा वृकोदरम्
आजघान भ्रुवोर्मध्ये नाराचेन परंतप

६.१०९.३१भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः

६.१०९.३२द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान्
ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः

६.१०९.३३स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः

६.१०९.३४ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान्
प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः

६.१०९.३५तस्य शक्तिं महावेगां भगदत्तो महारथः
चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम्

६.१०९.३६तोमरं सैन्धवो राजा पट्टिशं च महाभुजः
शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे

६.१०९.३७अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान्
भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा

६.१०९.३८तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः
पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत्

६.१०९.३९स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः
मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः

६.१०९.४०शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे
तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः

६.१०९.४१भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत्

६.१०९.४२ततो धनंजयस्तत्र वर्तमाने महारणे
जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम्
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः

६.१०९.४३तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ
नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ

६.१०९.४४अथार्जुनो रणे भीष्मं योधयन्वै महारथम्
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम्

६.१०९.४५आससाद रणे योधांस्तावकान्दश भारत
ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः
बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया

६.१०९.४६ततो दुर्योधनो राजा सुशर्माणमचोदयत्
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः

६.१०९.४७सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः
जहि पाण्डुसुतावेतौ धनंजयवृकोदरौ

६.१०९.४८तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ

६.१०९.४९रथैरनेकसाहस्रैः परिवव्रे समन्ततः
ततः प्रववृते युद्धमर्जुनस्य परैः सह