६.११.१धृतराष्ट्र उवाच
६.११.२भारतस्यास्य वर्षस्य तथा हैमवतस्य च
प्रमाणमायुषः सूत फलं चापि शुभाशुभम्
६.११.३अनागतमतिक्रान्तं वर्तमानं च संजय
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च
६.११.४संजय उवाच
६.११.५चत्वारि भारते वर्षे युगानि भरतर्षभ
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन
६.११.६पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो
संक्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते
६.११.७चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम
आयुःसंख्या कृतयुगे संख्याता राजसत्तम
६.११.८तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप
द्विसहस्रं द्वापरे तु शते तिष्ठति संप्रति
६.११.९न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च
६.११.१०महाबला महासत्त्वाः प्रजागुणसमन्विताः
अजायन्त कृते राजन्मुनयः सुतपोधनाः
६.११.११महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः
जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः
६.११.१२आयुष्मन्तो महावीरा धनुर्धरवरा युधि
जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः
६.११.१३सर्ववर्णा महाराज जायन्ते द्वापरे सति
महोत्साहा महावीर्याः परस्परवधैषिणः
६.११.१४तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप
लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत
६.११.१५ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च
पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत
६.११.१६संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप
गुणोत्तरं हैमवतं हरिवर्षं ततः परम्