६.१२.१धृतराष्ट्र उवाच
६.१२.२जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय
विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः
६.१२.३समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय
६.१२.४शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा
६.१२.५संजय उवाच
६.१२.६राजन्सुबहवो द्वीपा यैरिदं संततं जगत्
सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा
६.१२.७अष्टादश सहस्राणि योजनानां विशां पते
षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः
६.१२.८लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः
६.१२.९नैकधातुविचित्रैश्च पर्वतैरुपशोभितः
सिद्धचारणसंकीर्णः सागरः परिमण्डलः
६.१२.१०शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन
६.१२.११जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप
विष्कम्भेण महाराज सागरोऽपि विभागशः
क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः
६.१२.१२तत्र पुण्या जनपदा न तत्र म्रियते जनः
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते
६.१२.१३शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ
उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि
६.१२.१४धृतराष्ट्र उवाच
६.१२.१५शाकद्वीपस्य संक्षेपो यथावदिह संजय
उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः
६.१२.१६संजय उवाच
६.१२.१७तथैव पर्वता राजन्सप्तात्र मणिभूषिताः
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु
अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप
६.१२.१८देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते
प्रागायतो महाराज मलयो नाम पर्वतः
यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः
६.१२.१९ततः परेण कौरव्य जलधारो महागिरिः
यत्र नित्यमुपादत्ते वासवः परमं जलम्
यतो वर्षं प्रभवति वर्षाकाले जनेश्वर
६.१२.२०उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः
रेवती दिवि नक्षत्रं पितामहकृतो विधिः
६.१२.२१उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर
६.१२.२२धृतराष्ट्र उवाच
६.१२.२३सुमहान्संशयो मेऽद्य प्रोक्तं संजय यत्त्वया
प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह
६.१२.२४संजय उवाच
६.१२.२५सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन
गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप
६.१२.२६श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत
आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः
६.१२.२७ततः परं कौरवेन्द्र दुर्गशैलो महोदयः
केसरी केसरयुतो यतो वातः प्रवायति
६.१२.२८तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः
वर्षाणि तेषु कौरव्य संप्रोक्तानि मनीषिभिः
६.१२.२९महामेरुर्महाकाशो जलदः कुमुदोत्तरः
जलधारात्परो राजन्सुकुमार इति स्मृतः
६.१२.३०रैवतस्य तु कौमारः श्यामस्य तु मणीचकः
केसरस्याथ मोदाकी परेण तु महापुमान्
६.१२.३१परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च
जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः
६.१२.३२शाको नाम महाराज तस्य द्वीपस्य मध्यगः
तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः
६.१२.३३तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत
६.१२.३४वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते
दीर्घायुषो महाराज जरामृत्युविवर्जिताः
६.१२.३५प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः
६.१२.३६सुकुमारी कुमारी च सीता कावेरका तथा
महानदी च कौरव्य तथा मणिजला नदी
इक्षुवर्धनिका चैव तथा भरतसत्तम
६.१२.३७ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह
सहस्राणां शतान्येव यतो वर्षति वासवः
६.१२.३८न तासां नामधेयानि परिमाणं तथैव च
शक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः
६.१२.३९तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा
६.१२.४०मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः
६.१२.४१मानसेषु महाराज वैश्याः कर्मोपजीविनः
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः
शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः
६.१२.४२न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः
स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम्
६.१२.४३एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम्
एतावदेव श्रोतव्यं शाकद्वीपे महौजसि