६. भीष्मपर्व
६.४५.१संजय उवाच

६.४५.२गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे
वर्तमाने महारौद्रे महावीरवरक्षये

६.४५.३दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः

६.४५.४एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ
पाण्डवानामनीकानि विजगाहे महारथः

६.४५.५चेदिकाशिकरूषेषु पाञ्चालेषु च भारत
भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत

६.४५.६शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान्
निचकर्त महावेगैर्भल्लैः संनतपर्वभिः

६.४५.७नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ
केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः

६.४५.८अभिमन्युः सुसंक्रुद्धः पिशङ्गैस्तुरगोत्तमैः
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति

६.४५.९जाम्बूनदविचित्रेण कर्णिकारेण केतुना
अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान्

६.४५.१०स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा
भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह

६.४५.११कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः
विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम्

६.४५.१२पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च
ध्वजमेकेन विव्याध जाम्बूनदविभूषितम्

६.४५.१३दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना
जहार सारथेः कायाच्छिरः संनतपर्वणा

६.४५.१४धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः

६.४५.१५जघान परमक्रुद्धो नृत्यन्निव महारथः
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि

६.४५.१६लब्धलक्ष्यतया कार्ष्णेः सर्वे भीष्ममुखा रथाः
सत्त्ववन्तममन्यन्त साक्षादिव धनंजयम्

६.४५.१७तस्य लाघवमार्गस्थमलातसदृशप्रभम्
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत्

६.४५.१८तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः
विव्याध समरे तूर्णमार्जुनिं परवीरहा

६.४५.१९ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः
सारथिं च त्रिभिर्बाणैराजघान यतव्रतः

६.४५.२०तथैव कृतवर्मा च कृपः शल्यश्च मारिष
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम्

६.४५.२१स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति

६.४५.२२ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः
ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान्

६.४५.२३तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत
यतमानस्य समरे भीष्ममर्दयतः शरैः

६.४५.२४पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान्
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान्

६.४५.२५ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः

६.४५.२६स राजतो महास्कन्धस्तालो हेमविभूषितः
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत

६.४५.२७ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ
दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन्

६.४५.२८अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च
प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः

६.४५.२९ततः शतसहस्रेण सौभद्रं प्रपितामहः
अवाकिरदमेयात्मा शराणां नतपर्वणाम्

६.४५.३०ततो दश महेष्वासाः पाण्डवानां महारथाः
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः

६.४५.३१विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः
भीमश्च केकयाश्चैव सात्यकिश्च विशां पते

६.४५.३२जवेनापततां तेषां भीष्मः शांतनवो रणे
पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः

६.४५.३३पूर्णायतविसृष्टेन क्षुरेण निशितेन च
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा

६.४५.३४जाम्बूनदमयः केतुः केसरी नरसत्तम
पपात भीमसेनस्य भीष्मेण मथितो रथात्

६.४५.३५भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शांतनवं रणे
कृपमेकेन विव्याध कृतवर्माणमष्टभिः

६.४५.३६प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः

६.४५.३७तस्य वारणराजस्य जवेनापततो रथी
शल्यो निवारयामास वेगमप्रतिमं रणे

६.४५.३८तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः
पदा युगमधिष्ठाय जघान चतुरो हयान्

६.४५.३९स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम्
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम्

६.४५.४०तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः
स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः

६.४५.४१समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात्
वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम्

६.४५.४२भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः
भीममार्तस्वरं कृत्वा पपात च ममार च

६.४५.४३एतदीदृशकं कृत्वा मद्रराजो महारथः
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः

६.४५.४४उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम्
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम्
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव

६.४५.४५स विस्फार्य महच्चापं कार्तस्वरविभूषितम्
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली

६.४५.४६महता रथवंशेन समन्तात्परिवारितः
सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति

६.४५.४७तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम्
तावकानां रथाः सप्त समन्तात्पर्यवारयन्
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम्

६.४५.४८ततो भीष्मो महाबाहुर्विनद्य जलदो यथा
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे

६.४५.४९तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम्
संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः

६.४५.५०तत्रार्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत

६.४५.५१हाहाकारो महानासीद्योधानां युधि युध्यताम्
तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः

६.४५.५२अथ शल्यो गदापाणिरवतीर्य महारथात्
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ

६.४५.५३स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः
बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत

६.४५.५४ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः
यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम्

६.४५.५५पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान्
भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः

६.४५.५६उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम्
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम्
प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून्

६.४५.५७अग्निनेव प्रदग्धानि वनानि शिशिरात्यये
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह
अतिष्ठत रणे भीष्मो विधूम इव पावकः

६.४५.५८मध्यंदिने यथादित्यं तपन्तमिव तेजसा
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम्

६.४५.५९वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव

६.४५.६०हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत

६.४५.६१ततो भीष्मः शांतनवो नित्यं मण्डलकार्मुकः
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव

६.४५.६२शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः
जघान पाण्डवरथानादिश्यादिश्य भारत

६.४५.६३ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन

६.४५.६४भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे
अवहारमकुर्वन्त सैन्यानां भरतर्षभ