६.४४.१संजय उवाच
६.४४.२राजञ्शतसहस्राणि तत्र तत्र तदा तदा
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत
६.४४.३न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम्
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः
६.४४.४मातुलं न च स्वस्रीयो न सखायं सखा तथा
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह
६.४४.५रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः
अभज्यन्त युगैरेव युगानि भरतर्षभ
६.४४.६रथेषाश्च रथेषाभिः कूबरा रथकूबरैः
संहताः संहतैः केचित्परस्परजिघांसवः
६.४४.७न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः
प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः
६.४४.८बहुधादारयन्क्रुद्धा विषाणैरितरेतरम्
सतोमरपताकैश्च वारणाः परवारणैः
६.४४.९अभिसृत्य महाराज वेगवद्भिर्महागजैः
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः
६.४४.१०अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः
सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः
६.४४.११प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः
क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः
६.४४.१२सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः
ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः
६.४४.१३विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान्
६.४४.१४गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः
६.४४.१५गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः
आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः
६.४४.१६प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः
व्यदृश्यन्त महाराज परस्परजिघांसवः
६.४४.१७राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम्
६.४४.१८अवक्षिप्तावधूतानामसीनां वीरबाहुभिः
संजज्ञे तुमुलः शब्दः पततां परमर्मसु
६.४४.१९गदामुसलरुग्णानां भिन्नानां च वरासिभिः
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः
६.४४.२०तत्र तत्र नरौघाणां क्रोशतामितरेतरम्
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत
६.४४.२१हयैरपि हयारोहाश्चामरापीडधारिभिः
हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः
६.४४.२२तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः
६.४४.२३अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान्
शिरांस्याददिरे वीरा रथिनामश्वसादिनः
६.४४.२४बहूनपि हयारोहान्भल्लैः संनतपर्वभिः
रथी जघान संप्राप्य बाणगोचरमागतान्
६.४४.२५नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः
पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः
६.४४.२६पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः
६.४४.२७साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः
सहसा चिक्षिपुस्तत्र संकुले भैरवे सति
६.४४.२८साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः
रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः
६.४४.२९पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा
६.४४.३०केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः
विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः
६.४४.३१आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः
नराश्वकायान्निर्भिद्य लौहानि कवचानि च
६.४४.३२निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः
महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते
६.४४.३३द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि
विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे
६.४४.३४अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम्
विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः
६.४४.३५शक्तिभिर्दारिताः केचित्संछिन्नाश्च परश्वधैः
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः
६.४४.३६रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः
विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान्
६.४४.३७पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः
मातुलान्भागिनेयांश्च परानपि च संयुगे
६.४४.३८विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत
बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः
६.४४.३९तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते
भूमौ निपतिताः संख्ये जलमेव ययाचिरे
६.४४.४०रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान्
६.४४.४१अपरे क्षत्रियाः शूराः कृतवैराः परस्परम्
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष
तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम्
६.४४.४२निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान्
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम्
६.४४.४३अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः
निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः
६.४४.४४अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे
प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः
अशोभन्त महाराज पुष्पिता इव किंशुकाः
६.४४.४५संबभूवुरनीकेषु बहवो भैरवस्वनाः
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये
६.४४.४६अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः
६.४४.४७सखायं च सखा राजन्संबन्धी बान्धवं तथा
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह
६.४४.४८वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत
६.४४.४९केतुना पञ्चतारेण तालेन भरतर्षभ
राजतेन महाबाहुरुच्छ्रितेन महारथे
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा