६.४७.१संजय उवाच
६.४७.२क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव
व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा
६.४७.३आचार्यमुपसंगम्य कृपं शल्यं च मारिष
सौमदत्तिं विकर्णं च अश्वत्थामानमेव च
६.४७.४दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत
अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान्
६.४७.५प्राहेदं वचनं काले हर्षयंस्तनयस्तव
नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः
६.४७.६एकैकशः समर्था हि यूयं सर्वे महारथाः
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः
६.४७.७अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः
६.४७.८संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा
आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा
६.४७.९शत्रुंजयेन सहितास्तथा दुःशासनेन च
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः
६.४७.१०चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः
भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः
६.४७.११ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने
६.४७.१२भीष्मः सैन्येन महता समन्तात्परिवारितः
ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव
६.४७.१३तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान्
कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते
६.४७.१४विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि
सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम्
६.४७.१५गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत्
६.४७.१६ततो दुर्योधनो राजा सहितः सर्वसोदरैः
अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः
६.४७.१७दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम्
६.४७.१८भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन्
६.४७.१९सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः
शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः
६.४७.२०अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः
६.४७.२१पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः
केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः
६.४७.२२ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत
दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन्
६.४७.२३तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्
६.४७.२४ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्
६.४७.२५ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ
६.४७.२६पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः
६.४७.२७अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ
६.४७.२८काशिराजश्च शैब्यश्च शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः
६.४७.२९पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः
सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे
६.४७.३०स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत्
६.४७.३१एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः
पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम्