६.५०.१धृतराष्ट्र उवाच
६.५०.२तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः
कथमद्भुतकर्माणं भीमसेनं महाबलम्
६.५०.३चरन्तं गदया वीरं दण्डपाणिमिवान्तकम्
योधयामास समरे कलिङ्गः सह सेनया
६.५०.४संजय उवाच
६.५०.५पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति
६.५०.६तामापतन्तीं सहसा कलिङ्गानां महाचमूम्
रथनागाश्वकलिलां प्रगृहीतमहायुधाम्
६.५०.७भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम्
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः
६.५०.८ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह
आससाद रणे भीमं व्यूढानीकेषु चेदिषु
६.५०.९रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः
अयुतेन गजानां च निषादैः सह केतुमान्
भीमसेनं रणे राजन्समन्तात्पर्यवारयत्
६.५०.१०चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः
अभ्यवर्तन्त सहसा निषादान्सह राजभिः
६.५०.११ततः प्रववृते युद्धं घोररूपं भयानकम्
प्रजानन्न च योधान्स्वान्परस्परजिघांसया
६.५०.१२घोरमासीत्ततो युद्धं भीमस्य सहसा परैः
यथेन्द्रस्य महाराज महत्या दैत्यसेनया
६.५०.१३तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः
६.५०.१४अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते
महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम्
६.५०.१५योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया
स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः
६.५०.१६विमर्दः सुमहानासीदल्पानां बहुभिः सह
कलिङ्गैः सह चेदीनां निषादैश्च विशां पते
६.५०.१७कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः
६.५०.१८सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु
स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः
६.५०.१९न चचाल रथोपस्थाद्भीमसेनो महाबलः
शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम्
६.५०.२०कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः
६.५०.२१ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः
योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः
६.५०.२२शक्रदेवस्तु समरे विसृजन्सायकान्बहून्
अश्वाञ्जघान समरे भीमसेनस्य सायकैः
ववर्ष शरवर्षाणि तपान्ते जलदो यथा
६.५०.२३हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्
६.५०.२४स तया निहतो राजन्कलिङ्गस्य सुतो रथात्
सध्वजः सह सूतेन जगाम धरणीतलम्
६.५०.२५हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः
६.५०.२६ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम्
उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम्
६.५०.२७चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम्
६.५०.२८कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः
६.५०.२९तमापतन्तं वेगेन प्रेरितं निशितं शरम्
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम्
६.५०.३०कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्
६.५०.३१तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः
चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना
६.५०.३२निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश
भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः
६.५०.३३भानुमांस्तु ततो भीमं शरवर्षेण छादयन्
ननाद बलवन्नादं नादयानो नभस्तलम्
६.५०.३४न तं स ममृषे भीमः सिंहनादं महारणे
ततः स्वरेण महता विननाद महास्वनम्
६.५०.३५तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी
न भीमं समरे मेने मानुषं भरतर्षभ
६.५०.३६ततो भीमो महाराज नदित्वा विपुलं स्वनम्
सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम्
६.५०.३७आरुरोह ततो मध्यं नागराजस्य मारिष
खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत्
६.५०.३८सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः
गुरुभारसहस्कन्धे नागस्यासिमपातयत्
६.५०.३९छिन्नस्कन्धः स विनदन्पपात गजयूथपः
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः
६.५०.४०ततस्तस्मादवप्लुत्य गजाद्भारत भारतः
खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः
६.५०.४१स चचार बहून्मार्गानभीतः पातयन्गजान्
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत
६.५०.४२अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः
पदातीनां च संघेषु विनिघ्नञ्शोणितोक्षितः
श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः
६.५०.४३छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः
खड्गेन शितधारेण संयुगे गजयोधिनाम्
६.५०.४४पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः
मोहयामास च तदा कालान्तकयमोपमः
६.५०.४५मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन्
सासिमुत्तमवेगेन विचरन्तं महारणे
६.५०.४६निकृत्य रथिनामाजौ रथेषाश्च युगानि च
जघान रथिनश्चापि बलवानरिमर्दनः
६.५०.४७भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम्
संपातं समुदीर्यं च दर्शयामास पाण्डवः
६.५०.४८केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः
६.५०.४९छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः
निपेतुरुर्व्यां च तथा विनदन्तो महारवान्
६.५०.५०छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च
परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः
६.५०.५१ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा
तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च
६.५०.५२अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह
घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि
पततः पतितांश्चैव पश्यामः सह सादिभिः
६.५०.५३छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः
आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव
६.५०.५४विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः
अश्वारोहवरांश्चापि पातयामास भारत
तद्घोरमभवद्युद्धं तस्य तेषां च भारत
६.५०.५५खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः
६.५०.५६कवचान्यथ चर्माणि चित्राण्यास्तरणानि च
तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे
६.५०.५७प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव
६.५०.५८आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः
पातयामास खड्गेन सध्वजानपि पाण्डवः
६.५०.५९मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः
मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः
६.५०.६०निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत्
खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्
६.५०.६१ऊरुवेगेन चाप्यन्यान्पातयामास भूतले
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः
६.५०.६२एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्
६.५०.६३ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्
६.५०.६४तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे
६.५०.६५कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः
भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः
६.५०.६६अथाशोकः समादाय रथं हेमपरिष्कृतम्
भीमं संपादयामास रथेन रथसारथिः
६.५०.६७तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः
कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत्
६.५०.६८ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान्
प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम्
६.५०.६९स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः
समाहतो भृशं राजन्कलिङ्गेन महायशाः
संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः
६.५०.७०क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः
६.५०.७१क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम्
६.५०.७२ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः
केतुमन्तं रणे भीमोऽगमयद्यमसादनम्
६.५०.७३ततः कलिङ्गाः संक्रुद्धा भीमसेनममर्षणम्
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन्
६.५०.७४ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन्
६.५०.७५संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्
गदामादाय तरसा परिप्लुत्य महाबलः
भीमः सप्तशतान्वीराननयद्यमसादनम्
६.५०.७६पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्
६.५०.७७एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः
बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम्
६.५०.७८हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना
विप्रजग्मुरनीकेषु मेघा वातहता इव
मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः
६.५०.७९ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत्
६.५०.८०मोहश्चापि कलिङ्गानामाविवेश परंतप
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः
६.५०.८१भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः
मार्गान्बहून्विचरता धावता च ततस्ततः
मुहुरुत्पतता चैव संमोहः समजायत
६.५०.८२भीमसेनभयत्रस्तं सैन्यं च समकम्पत
क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः
६.५०.८३त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा
पुनरावर्तमानेषु विद्रवत्सु च संघशः
६.५०.८४सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः
६.५०.८५सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः
६.५०.८६धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः
महता मेघवर्णेन नागानीकेन पृष्ठतः
६.५०.८७एवं संचोद्य सर्वाणि स्वान्यनीकानि पार्षतः
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम्
६.५०.८८न हि पाञ्चालराजस्य लोके कश्चन विद्यते
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः
६.५०.८९सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम्
भीमसेनं महाबाहुं पार्षतः परवीरहा
६.५०.९०ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः
शङ्खं दध्मौ च समरे सिंहनादं ननाद च
६.५०.९१स च पारावताश्वस्य रथे हेमपरिष्कृते
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत्
६.५०.९२धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम्
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात्
६.५०.९३तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ
कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ
६.५०.९४स तत्र गत्वा शैनेयो जवेन जयतां वरः
पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः
६.५०.९५स कृत्वा कदनं तत्र प्रगृहीतशरासनः
आस्थितो रौद्रमात्मानं जघान समरे परान्
६.५०.९६कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम्
६.५०.९७अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्
संततार सुदुस्तारां भीमसेनो महाबलः
६.५०.९८भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप
कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते
६.५०.९९ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे
अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः
६.५०.१००तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम्
६.५०.१०१परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा
६.५०.१०२प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः
६.५०.१०३ततः शरसहस्रेण संनिवार्य महारथान्
हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः
६.५०.१०४हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान्
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति
६.५०.१०५अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत
६.५०.१०६ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम्
भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ
६.५०.१०७सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया
सारथिं कुरुवृद्धस्य पातयामास सायकैः
६.५०.१०८भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः
वातायमानैस्तैरश्वैरपनीतो रणाजिरात्
६.५०.१०९भीमसेनस्ततो राजन्नपनीते महाव्रते
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः
६.५०.११०स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ
६.५०.१११धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः
पश्यतां सर्वसैन्यानामपोवाह यशस्विनम्
६.५०.११२संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम्
६.५०.११३अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः
६.५०.११४दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान्
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः
६.५०.११५स्वबाहुबलवीर्येण नागाश्वरथसंकुलः
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया
६.५०.११६एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम्
६.५०.११७ततः स्वरथमारुह्य पुनरेव महारथः
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत्