६.५१.१संजय उवाच
६.५१.२गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत
रथनागाश्वपत्तीनां सादिनां च महाक्षये
६.५१.३द्रोणपुत्रेण शल्येन कृपेण च महात्मना
समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः
६.५१.४स लोकविदितानश्वान्निजघान महाबलः
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः
६.५१.५ततः शल्यरथं तूर्णमास्थाय हतवाहनः
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः
६.५१.६धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान्
६.५१.७स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ
६.५१.८आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा
शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः
६.५१.९लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम्
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत
६.५१.१०दौर्योधनिस्तु संक्रुद्धः सौभद्रं नवभिः शरैः
विव्याध समरे राजंस्तदद्भुतमिवाभवत्
६.५१.११अभिमन्युस्तु संक्रुद्धो भ्रातरं भरतर्षभ
शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत
६.५१.१२लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा
मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः
६.५१.१३तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम्
६.५१.१४तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ
६.५१.१५ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम्
पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः
६.५१.१६संनिवृत्ते तव सुते सर्व एव जनाधिपाः
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन्
६.५१.१७स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः
न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः
६.५१.१८सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनंजयः
अभिदुद्राव संक्रुद्धस्त्रातुकामः स्वमात्मजम्
६.५१.१९ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम्
६.५१.२०उद्धूतं सहसा भौमं नागाश्वरथसादिभिः
दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत
६.५१.२१तानि नागसहस्राणि भूमिपालशतानि च
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः
६.५१.२२प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः
कुरूणामनयस्तीव्रः समदृश्यत दारुणः
६.५१.२३नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः
प्रजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः
६.५१.२४सादितध्वजनागास्तु हताश्वा रथिनो भृशम्
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः
६.५१.२५विरथा रथिनश्चान्ये धावमानाः समन्ततः
तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः
६.५१.२६हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः
६.५१.२७रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः
६.५१.२८सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते
सप्रासांश्च सतूणीरान्सशरान्सशरासनान्
६.५१.२९साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम्
निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा
६.५१.३०परिघाणां प्रवृद्धानां मुद्गराणां च मारिष
प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे
६.५१.३१परश्वधानां तीक्ष्णानां तोमराणां च भारत
वर्मणां चापविद्धानां कवचानां च भूतले
६.५१.३२ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः
छत्राणां हेमदण्डानां चामराणां च भारत
६.५१.३३प्रतोदानां कशानां च योक्त्राणां चैव मारिष
राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ
६.५१.३४नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन
६.५१.३५यो यो हि समरे पार्थं प्रत्युद्याति विशां पते
स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते
६.५१.३६तेषु विद्रवमाणेषु तव योधेषु सर्वशः
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ
६.५१.३७तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव
६.५१.३८एष पाण्डुसुतो वीरः कृष्णेन सहितो बली
तथा करोति सैन्यानि यथा कुर्याद्धनंजयः
६.५१.३९न ह्येष समरे शक्यो जेतुमद्य कथंचन
यथास्य दृश्यते रूपं कालान्तकयमोपमम्
६.५१.४०न निवर्तयितुं चापि शक्येयं महती चमूः
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी
६.५१.४१एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते
वपूंषि सर्वलोकस्य संहरन्निव सर्वथा
६.५१.४२तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन
६.५१.४३एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम्
अवहारमथो चक्रे तावकानां महारथः
६.५१.४४ततोऽवहारः सैन्यानां तव तेषां च भारत
अस्तं गच्छति सूर्येऽभूत्संध्याकाले च वर्तति