६. भीष्मपर्व
६.५३.१संजय उवाच

६.५३.२ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च
धनंजयो रथानीकमवधीत्तव भारत
शरैरतिरथो युद्धे पातयन्रथयूथपान्

६.५३.३ते वध्यमानाः पार्थेन कालेनेव युगक्षये
धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन्
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम्

६.५३.४एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम्
बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे

६.५३.५द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च
पाण्डवैः कौरवैश्चैव न प्रज्ञायत किंचन

६.५३.६उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्
दिशः प्रतिदिशो वापि तत्र जज्ञुः कथंचन

६.५३.७अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे
वर्तते स्म तदा युद्धं तत्र तत्र विशां पते

६.५३.८न व्यूहो भिद्यते तत्र कौरवाणां कथंचन
रक्षितः सत्यसंधेन भारद्वाजेन धीमता

६.५३.९तथैव पाण्डवेयानां रक्षितः सव्यसाचिना
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः

६.५३.१०सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः

६.५३.११हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे
ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे

६.५३.१२रथी रथिनमासाद्य शरैः कनकभूषणैः
पातयामास समरे तस्मिन्नतिभयंकरे

६.५३.१३गजारोहा गजारोहान्नाराचशरतोमरैः
संसक्ताः पातयामासुस्तव तेषां च संघशः

६.५३.१४पत्तिसंघा रणे पत्तीन्भिण्डिपालपरश्वधैः
न्यपातयन्त संहृष्टाः परस्परकृतागसः

६.५३.१५पदाती रथिनं संख्ये रथी चापि पदातिनम्
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि

६.५३.१६गजारोहा हयारोहान्पातयां चक्रिरे तदा
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत्

६.५३.१७गजारोहवरैश्चापि तत्र तत्र पदातयः
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः

६.५३.१८पत्तिसंघा हयारोहैः सादिसंघाश्च पत्तिभिः
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः

६.५३.१९ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा

६.५३.२०शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा

६.५३.२१परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता

६.५३.२२नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे
अगम्यरूपा पृथिवी मांसशोणितकर्दमा

६.५३.२३प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः
दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर

६.५३.२४उत्थितान्यगणेयानि कबन्धानि समन्ततः
चिह्नभूतानि जगतो विनाशार्थाय भारत

६.५३.२५तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः

६.५३.२६ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः
पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः

६.५३.२७एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः
पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः

६.५३.२८तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः
सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत

६.५३.२९तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः
द्रावयामासुराजौ ते त्रिदशा दानवानिव

६.५३.३०तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव

६.५३.३१विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले

६.५३.३२ततो रथसहस्रेण पुत्रो दुर्योधनस्तव
अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम्

६.५३.३३तथैव पाण्डवाः सर्वे महत्या सेनया सह
द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ

६.५३.३४किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान्
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम्

६.५३.३५ततः प्रववृते भूयः संग्रामो लोमहर्षणः
तावकानां परेषां च समरे विजिगीषताम्