६. भीष्मपर्व
६.५२.१संजय उवाच

६.५२.२प्रभातायां तु शर्वर्यां भीष्मः शांतनवस्ततः
अनीकान्यनुसंयाने व्यादिदेशाथ भारत

६.५२.३गारुडं च महाव्यूहं चक्रे शांतनवस्तदा
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः

६.५२.४गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः

६.५२.५अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ
त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ

६.५२.६भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष
मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये

६.५२.७जयद्रथेन सहिता ग्रीवायां संनिवेशिताः
पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः

६.५२.८विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह
पुच्छमासन्महाराज शूरसेनाश्च सर्वशः

६.५२.९मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः

६.५२.१०काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा
बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः

६.५२.११व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे
अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम्

६.५२.१२दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत
नानाशस्त्रौघसंपन्नैर्नानादेश्यैर्नृपैर्वृतः

६.५२.१३तदन्वेव विराटश्च द्रुपदश्च महारथः
तदनन्तरमेवासीन्नीलो नीलायुधैः सह

६.५२.१४नीलादनन्तरं चैव धृष्टकेतुर्महारथः
चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः

६.५२.१५धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत

६.५२.१६तथैव धर्मराजोऽपि गजानीकेन संवृतः
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः

६.५२.१७अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम्
भैमसेनिस्ततो राजन्केकयाश्च महारथाः

६.५२.१८ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः

६.५२.१९एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः
वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः

६.५२.२०ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
तावकानां परेषां च निघ्नतामितरेतरम्

६.५२.२१हयौघाश्च रथौघाश्च तत्र तत्र विशां पते
संपतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम्

६.५२.२२धावतां च रथौघानां निघ्नतां च पृथक्पृथक्
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः

६.५२.२३दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम्
संप्रहारे सुतुमुले तव तेषां च भारत