६.६२.१भीष्म उवाच
६.६२.२ततः स भगवान्देवो लोकानां परमेश्वरः
ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा
६.६२.३विदितं तात योगान्मे सर्वमेतत्तवेप्सितम्
तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत
६.६२.४ततो देवर्षिगन्धर्वा विस्मयं परमं गताः
कौतूहलपराः सर्वे पितामहमथाब्रुवन्
६.६२.५को न्वयं यो भगवता प्रणम्य विनयाद्विभो
वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम्
६.६२.६एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः
देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा
६.६२.७यत्तत्परं भविष्यं च भवितव्यं च यत्परम्
भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम्
६.६२.८तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः
जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः
६.६२.९मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः
असुराणां वधार्थाय संभवस्व महीतले
६.६२.१०संग्रामे निहता ये ते दैत्यदानवराक्षसाः
त इमे नृषु संभूता घोररूपा महाबलाः
६.६२.११तेषां वधार्थं भगवान्नरेण सहितो वशी
मानुषीं योनिमास्थाय चरिष्यति महीतले
६.६२.१२नरनारायणौ यौ तौ पुराणावृषिसत्तमौ
सहितौ मानुषे लोके संभूतावमितद्युती
६.६२.१३अजेयौ समरे यत्तौ सहितावमरैरपि
मूढास्त्वेतौ न जानन्ति नरनारायणावृषी
६.६२.१४तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः
वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः
६.६२.१५तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः
नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः
६.६२.१६एतत्परमकं गुह्यमेतत्परमकं पदम्
एतत्परमकं ब्रह्म एतत्परमकं यशः
६.६२.१७एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत्
एतत्पुरुषसंज्ञं वै गीयते ज्ञायते न च
६.६२.१८एतत्परमकं तेज एतत्परमकं सुखम्
एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा
६.६२.१९तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः
नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः
६.६२.२०यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः
हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम्
६.६२.२१योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम्
अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः
६.६२.२२देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम्
पद्मनाभं न जानाति तमाहुस्तामसं जनाः
६.६२.२३किरीटकौस्तुभधरं मित्राणामभयंकरम्
अवजानन्महात्मानं घोरे तमसि मज्जति
६.६२.२४एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः
वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः
६.६२.२५एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा
विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम्
६.६२.२६ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च
कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः
६.६२.२७एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम्
वासुदेवं कथयतां समवाये पुरातनम्
६.६२.२८जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः
व्यासनारदयोश्चापि श्रुतं श्रुतविशारद
६.६२.२९एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम्
वासुदेवं महात्मानं लोकानामीश्वरेश्वरम्
६.६२.३०यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता
कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः
६.६२.३१वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः
मा गच्छ संयुगं तेन वासुदेवेन धीमता
मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे
६.६२.३२मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः
यस्माद्द्विषसि गोविन्दं पाण्डवं च धनंजयम्
नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः
६.६२.३३तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः
सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः
६.६२.३४लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः
योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः
६.६२.३५राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः
६.६२.३६तस्य माहात्म्ययोगेन योगेनात्मन एव च
धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति
६.६२.३७श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः
बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति
६.६२.३८स एष शाश्वतो देवः सर्वगुह्यमयः शिवः
वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत
६.६२.३९ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः
सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः
६.६२.४०द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च
सात्वतं विधिमास्थाय गीतः संकर्षणेन यः
६.६२.४१स एष सर्वासुरमर्त्यलोकं; समुद्रकक्ष्यान्तरिताः पुरीश्च
युगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः