६.६४.१भीष्म उवाच
६.६४.२शृणु चेदं महाराज ब्रह्मभूतस्तवं मम
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि
६.६४.३साध्यानामपि देवानां देवदेवेश्वरः प्रभुः
लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत्
भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह
६.६४.४यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि
देवानामपि देवं च त्वामाह भगवान्भृगुः
पुराणे भैरवं रूपं विष्णो भूतपतेति वै
६.६४.५वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा
देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत्
६.६४.६पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम्
स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत्
६.६४.७अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम्
देवा वाक्संभवाश्चेति देवलस्त्वसितोऽब्रवीत्
६.६४.८शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः
६.६४.९एवं त्वामभिजानन्ति तपसा भाविता नराः
आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः
६.६४.१०राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम्
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन
६.६४.११एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः
केशवस्य यथातत्त्वं सुप्रीतो भव केशवे
६.६४.१२संजय उवाच
६.६४.१३पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव
केशवं बहु मेने स पाण्डवांश्च महारथान्
६.६४.१४तमब्रवीन्महाराज भीष्मः शांतनवः पुनः
माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः
६.६४.१५नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि
यदर्थं नृषु संभूतौ नरनारायणावुभौ
६.६४.१६अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ
यथा च पाण्डवा राजन्नगम्या युधि कस्यचित्
६.६४.१७प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः
६.६४.१८पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी
नरनारायणौ देवाववज्ञाय नशिष्यसि
६.६४.१९एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते
व्यसर्जयच्च राजानं शयनं च विवेश ह
६.६४.२०राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने
शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ