६.६५.१संजय उवाच
६.६५.२व्युषितायां च शर्वर्यामुदिते च दिवाकरे
उभे सेने महाराज युद्धायैव समीयतुः
६.६५.३अभ्यधावंश्च संक्रुद्धाः परस्परजिगीषवः
ते सर्वे सहिता युद्धे समालोक्य परस्परम्
६.६५.४पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव
व्यूहौ च व्यूह्य संरब्धाः संप्रयुद्धाः प्रहारिणः
६.६५.५अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः
६.६५.६स निर्ययौ रथानीकं पिता देवव्रतस्तव
महता रथवंशेन संवृतो रथिनां वरः
६.६५.७इतरेतरमन्वीयुर्यथाभागमवस्थिताः
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा
६.६५.८तान्दृष्ट्वा प्रोद्यतान्संख्ये पाण्डवाश्च यशस्विनः
श्येनेन व्यूहराजेन तेनाजय्येन संयुगे
६.६५.९अशोभत मुखे तस्य भीमसेनो महाबलः
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः
६.६५.१०शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः
विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा
६.६५.११अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे
६.६५.१२दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान्
६.६५.१३पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः
भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः
६.६५.१४प्रविश्य तु रणे भीमो मकरं मुखतस्तदा
भीष्ममासाद्य संग्रामे छादयामास सायकैः
६.६५.१५ततो भीष्मो महास्त्राणि पातयामास भारत
मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे
६.६५.१६संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि
६.६५.१७परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे
स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः
६.६५.१८ततो दुर्योधनो राजा भारद्वाजमभाषत
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः
६.६५.१९आचार्य सततं त्वं हि हितकामो ममानघ
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम्
६.६५.२०देवानपि रणे जेतुं प्रार्थयामो न संशयः
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्
६.६५.२१एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः
६.६५.२२सात्यकिस्तु तदा द्रोणं वारयामास भारत
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
६.६५.२३शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान्
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव
६.६५.२४भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात्
६.६५.२५ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष
भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः
६.६५.२६तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष
विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान्
६.६५.२७भीष्मद्रोणौ च संक्रुद्धावापतन्तौ महाबलौ
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे
६.६५.२८प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम्
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम्
६.६५.२९शिखण्डिनं समासाद्य भरतानां पितामहः
अवर्जयत संग्रामे स्त्रीत्वं तस्यानुसंस्मरन्
६.६५.३०ततो द्रोणो महाराज अभ्यद्रवत तं रणे
रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः
६.६५.३१शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्
अवर्जयत संग्रामे युगान्ताग्निमिवोल्बणम्
६.६५.३२ततो बलेन महता पुत्रस्तव विशां पते
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः
६.६५.३३तथैव पाण्डवा राजन्पुरस्कृत्य धनंजयम्
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम्
६.६५.३४तद्युद्धमभवद्घोरं देवानां दानवैरिव
जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम्