६. भीष्मपर्व
६.७२.१धृतराष्ट्र उवाच

६.७२.२एवं बहुगुणं सैन्यमेवं बहुविधं परम्
व्यूढमेवं यथाशास्त्रममोघं चैव संजय

६.७२.३पुष्टमस्माकमत्यन्तमभिकामं च नः सदा
प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम्

६.७२.४नातिवृद्धमबालं च न कृशं न च पीवरम्
लघुवृत्तायतप्रायं सारगात्रमनामयम्

६.७२.५आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम्
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम्

६.७२.६प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः

६.७२.७कम्पनेषु च चापेषु कणपेषु च सर्वशः
क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम्

६.७२.८अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम्
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्

६.७२.९आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्

६.७२.१०नागाश्वरथयानेषु बहुशः सुपरीक्षितम्
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्

६.७२.११न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः
न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः

६.७२.१२समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम्
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च

६.७२.१३सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः
लोकपालोपमैस्तात पालितं लोकविश्रुतैः

६.७२.१४बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः
अस्मानभिगतैः कामात्सबलैः सपदानुगैः

६.७२.१५महोदधिमिवापूर्णमापगाभिः समन्ततः
अपक्षैः पक्षसंकाशै रथैर्नागैश्च संवृतम्

६.७२.१६नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्
क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम्

६.७२.१७ध्वजभूषणसंबाधं रत्नपट्टेन संचितम्
वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम्

६.७२.१८अपारमिव गर्जन्तं सागरप्रतिमं महत्
द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा

६.७२.१९कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः

६.७२.२०गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः
यदहन्यत संग्रामे दिष्टमेतत्पुरातनम्

६.७२.२१नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः
ऋषयो वा महाभागाः पुराणा भुवि संजय

६.७२.२२ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसंपदा
वध्यते यत्र संग्रामे किमन्यद्भागधेयतः

६.७२.२३विपरीतमिदं सर्वं प्रतिभाति स्म संजय
यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान्

६.७२.२४अथ वा पाण्डवार्थाय देवास्तत्र समागताः
युध्यन्ते मामकं सैन्यं यदवध्यन्त संजय

६.७२.२५उक्तो हि विदुरेणेह हितं पथ्यं च संजय
न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम

६.७२.२६तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः
आसीद्यथागतं तात येन दृष्टमिदं पुरा

६.७२.२७अथ वा भाव्यमेवं हि संजयैतेन सर्वथा
पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा